________________
वृत्तस्योपरि द्वादश तत उपरिष्ठादधस्ताच्च चत्वार इति । उजः प्रदेशं प्रतरत्र्यनं त्रिप्रदेशं त्रिप्रदेशावगाढं च तच्चैवं - पूर्व तिर्यगणुष्यं न्यस्यते, तत श्राद्यस्याध एकोऽणु, स्थापना -:' । युग्मप्रदेशं प्रतरत्र्यनं पटूप्रदेशं षटूप्रदेशावगाढं च, तत्र तिर्यङ् निरन्तरं त्रयः परमाणवः स्थाप्यन्ते, तत श्राद्यस्याध उपर्यधोजावेनाणुघयं द्वितीयस्याध एकोऽणुः । जंज:प्रदेशं घनत्र्यस्त्रं पञ्चत्रिंशत्प्रदेशं, तच्चैवं-तिर्यग्निरन्तराः पञ्च परमाणवः स्थाप्यन्ते, तेषां चाघोऽधः क्रमेण तिर्यगेव चत्वारस्त्रयोषावेकश्चेति पञ्चदशप्रदेशात्मकः प्रतरो जातः, ततस्तस्योपरि सर्वपङ्किष्वन्त्यान्त्यपरित्यागेन दश, तथैव तडुपरि षटू त्रय एकश्चेत्यवः स्थाप्याः, तत एवं पञ्चत्रिंशत्प्रदेशात्मकं स्थापना -। युग्मप्रदेशं घनत्र्यत्रं चतुष्पदेशात्मकं तद्यथा - पूर्वोक्तस्य त्रिप्रदेशात्मकस्य त्र्यस्रस्य संबन्धिन एकस्याणोरुपर्ये कोऽणुरवस्थाप्यते । उजःप्रदेशं प्रतरचतुस्रं नवप्रदेशं नवप्रदेशावगाढं च तत्र तिर्यग्निरन्तरं त्रिप्रदेशास्तिस्रः पङ्कयः स्थाप्यन्ते, स्थापना । युग्मप्रदेशं प्रतरचतुरस्रं चतुःप्रदेशं चतुःप्रदेशावगाढं च । तत्र तिर्यग्विप्रदेशे घे पङ्की -स्थाप्येते :: । उजः प्रदेशं घनचतुरस्रं सप्तविंशतिप्रदेशं, तत्र नवप्रदेशात्मकस्यैव पूर्वोक्तस्य प्रतरस्याध उपरि च नव प्रदेशाः स्थाप्यन्ते । तत उजःप्रदेशं घनचतुरस्रं जवति, स्थापना । सैव युग्मप्रदेशं घनचतुरस्रमष्टप्रदेशात्मकं तच्चैवं चतुःप्रदेशात्मकस्य पूर्वोक्तस्य प्रतरस्योपरि चत्वारोऽन्ये परमाणवः | स्थाप्यन्त इति । तेजःप्रदेशं श्रेण्यायतं त्रिप्रदेशं त्रिप्रदेशावगाढं च तत्र तिर्यग्निरन्तरं त्रयः स्थाप्यन्ते ००० । युग्मप्रदेशं श्रेयायतं धात्र्यां तिर्यक् स्थितायां ०० । उजःप्रदेशं प्रतरायतं पञ्चदशप्रदेशावगाढं, तत्र पञ्चप्रदेशात्मिकास्तिस्रः पङ्कयः तिर्यक् स्थाप्यन्ते । युग्मप्रदेशं प्रतरायतं षट्प्रदेशं षट्प्रदेशावगाढं च, तत्र त्रिप्रदेशं पङ्किषयं तिर्यक् स्थाप्यते ::: ।