SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ विधषव्यक्षेत्रकाल जावसामग्री मवाप्य स्वर्गापवर्गहेतु सम्यन्नयविनयोपेता नवन्तीति नरा मनुष्याः, "ऋदिवर्णोवर्णात्" इत्यन् प्रत्यय' । तिरोऽञ्चन्ति सर्वासु दिक्षु विदिक्षु च यथाकर्मोदयमुत्पद्यन्ते इति तिर्यञ्चः । नराश्व तिर्यञ्चश्च नरतिर्यञ्चस्तेषां देहमानमायुः प्रमाणं च वक्ष्यामि । इह स्थित्याद्यतिदेशो न कृतः, नरतिरश्चां जवनानभिधानात् । न हि पुरतो नर तिरश्चांजवनानि वक्ष्यति । श्रह - वक्ष्यामीति पुनः क्रियानिधानमयुक्तं, प्राक्तनेनैव गतार्थत्वात्, तदयुक्तं, वस्तुतत्वापरिज्ञानात् प्राक्तनं हि वक्ष्ये इति क्रियापदं प्रकरणापेक्षं, यथा सङ्ग्रहणिरितिनामकं प्रकरणं वक्ष्ये, इदं तु वदयामीति क्रियापदं प्रकरणे यदभिधेयं तदपेक्षमिति निन्नविषयत्वाददोषः । अथवा पुनः पुनः क्रियापदानिधानमाचार्यः कुर्वन् प्रकरणस्य पारतन्त्र्यमावेदयति, तद्यथा - नाहं स्वमनीषिकया वदये किं तु यत्प्रवचनानुयायिनि वचित्रास्त्रे सुरनारकाणां स्थित्यादिप्रतिपाद्यमानमुपलब्धं तपश्ये, यच्च शास्त्रान्तरे नरतिरश्चां देहमानादि तदपि वक्ष्यामीत्याह । तथा 'विरहेत्यादि' विरहोऽपान्तराल कालः, उपपतनमुपपातो जन्मेत्यर्थः, उर्तनमुघर्तना च्युतिर्मरण मिति पर्यायाः, उपपातश्च उघर्तना च उपपातोघर्तनं समाहारो इन्धस्तस्मिन् विरहं वक्ष्ये प्राकृतशैल्या च विरहशब्दात्परस्या विजत्तेर्लुक् । किमुक्तं नवति ? उपपाते उघर्तनायां च विरहं वक्ष्ये । यथा सौधर्मादिषु रत्नप्रनादिषु च यथासङ्ख्यमेकस्मिन् देवे नारके वा समुत्पन्ने सति नूयः कियता कालेनान्यो देवो नारको वा समुत्पद्यते । यदि वा एकस्मिन् देवे नारके वा उद्वृत्ते पुनः कियता कालेनान्यो देवो नारको वा उघर्तिष्यत इति । तथा सङ्ख्यां सङ्ख्या गणितमियत्तेत्यनर्थान्तरं । तथा चैवेति समुच्चये, एकसमयेन न तु दित्र्यादिसमयैरुपपातोघर्तनविषये वक्ष्ये । एतदुक्तं भवति - कियन्तः खह्वेकेन समयेन सौधर्मादिषु
SR No.600332
Book TitleBruhat Sangrahani
Original Sutra AuthorN/A
AuthorJinbhadragani Kshamashraman, Malaygirisuri, Vijaydansuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy