SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ वृहत्सं० ॥ २ ॥ | क्षेत्रसमासादिकं वक्तव्यं, परं तद्वदु वक्तव्यमिति पश्चादनिधेयं, इदानीं तु तावत्सङ्ग्रह पिरिति नामकं प्रकरणं वक्ष्ये । काथ सङ्ग्रहणिरिति कः शब्दार्थः ? उच्यते - शास्त्रान्तरेषु प्रज्ञापनादिषु विस्तरेणाजिहिता श्रर्थाः संक्षिप्य गृह्यन्ते प्रति| पाद्यत्वेनानिधीयन्ते यया ग्रन्थपत्या सा सङ्ग्रहणिः, उणादिकोऽनिप्रत्ययः । सम्प्रति येषामनिधेयानामर्थानां सङ्ग्रहणिस्तान् साक्षाद्दिशति — सुरनारयाणेत्यादि, सुष्ठु राजन्ते शोभन्ते इति सुराः क्वचिदिति मप्रत्ययः । अथवा सुष्ठु अतिशयेन परितुष्टाः सन्तोऽनिलपितमर्थमाराधकेन्यो रान्ति प्रयक्षन्ति यथा कृष्णस्य सुस्थितनामा लवणाधिपः समुद्रमध्ये रथमार्गमिति सुराः । यदि वा “सुर ऐश्वर्यदीत्योः” सुरन्ति शेषमनुष्यादिप्राणिगणासाधारणमैश्वर्यमनुभवन्ति, यश विशिष्टद्युतिसंचारतो देदीप्यन्त इति सुराः देवाः । जातिशब्दोऽयमश्वादिशब्दवत् । तथा "केँ मैं रैं शब्दे" नरान् उपलक्षणमेतत् तिरश्चोऽपि योग्यताया अनतिक्रमेण कायन्ति शब्दयन्तीति श्राकारयन्तीत्यर्थः नरकाः सीमन्तकादयो वक्ष्यमाणस्वरूपास्तेषु जवा नारका नरकायुर्नरकगतिकर्मोदयवर्तिनः । एषोऽपि शब्दो जातिवाची, गवाश्वादिशब्दवत् । सुराश्च नारकाश्च सुरनारकास्तेषां । प्रत्येकमेकमेकं प्रति । किमुक्तं नवति ? सुराणां नारकाणां च पृथक् पृथक् । किमित्याह-स्थितिजवनावगाहना वक्ष्यामि । तत्र तिष्ठन्ति नारक तिर्यङ्कनरामरजवेषु शृङ्खलावद्धा इवावतिष्ठन्ते यया कर्म - | विपाकपरित्या सा स्थितिः आयुर्जीवितमिति पर्यायाः । तथा जवन्ति वर्तन्ते एध्विति जवनानि श्रालया निलया इत्यनर्थान्तरं । श्रवगाहते जीवोऽस्यामित्यवगाहना तनुः शरीरमित्येकोऽर्थः । स्थितिश्च जवनानि चावगाहना च स्थितिज वनावगाहनास्ता वक्ष्ये । चशब्दः समुच्चये, तेनान्यदपि वर्ण चिह्नादिकं वक्ष्य इति प्रष्टव्यं । तथा " नृ नये" नृणन्ति तथा सटीकः ॥
SR No.600332
Book TitleBruhat Sangrahani
Original Sutra AuthorN/A
AuthorJinbhadragani Kshamashraman, Malaygirisuri, Vijaydansuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy