SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ | प्रदीप्ताग्निराशिपरिवृतस्य मेघविनिर्मुक्ते नजसि मध्याह्ने वातप्रचाररहिते तिरस्कृतातपत्रस्य यादृगुष्ण वेदनारूपं दुःखं, | ततोऽनन्तगुणं रलप्रजायां नारकेषु । अपि च स नारको यदि किस तस्मात् स्थानादुत्पाव्य सुसंनृतखादिराङ्गारराशाबुदीते प्रदिष्यते, ततः सुशीतमृडमारुतां शीतलां बायामिव प्राप्तः सुखमनुपमं विन्द्यात्, निषां चोपलनेत । रत्नप्रजातोऽपि शर्कराप्रजायामुष्ण वेदना तीव्रतरा । ततोऽपि बालुकाप्रजायां तीव्रतमा । पङ्कप्रजायां चतुर्थ्यां पृथिव्यां बहुपूपरितनेषु नरकावासेपूष्णवेदना, स्तोकेषु शेषेष्वधस्तनेषु नरकावासेषु शीतवेदना । तस्याश्च स्वरूप मित्थं प्रवचनवेदिनः प्रकटयन्ति - पौषे माघे वा मासे रात्रौ तुपारका लिप्तगात्रस्य हृदयकरचरणदशनाधरौष्ठप्रकम्पकारिणि प्रतिसमयप्रवृद्धमाने प्रवाति शीतमारुते निरग्नेर्निराश्रयस्य निष्प्रावरणस्य यादृक् शीतसमुद्भवं दुःखं, ततोऽनन्तगुणं शीतवेदनेषु नरकेषु । श्रपि चैवं संभाव्यते - स यदि नारकः शीतवेदनान्नरका लिप्य माघमासे रात्रौ नमसि तुषारराशौ सकलशरी| रप्रकम्पकारिणि प्रक्षिप्यते ततः स सुखमनुपमं विन्द्यात्, निद्रां चोपलनेत । पञ्चम्यां तु धूमप्रजायां पृथिव्यां वदुषु नरकावासेषु शीतवेदना स्तोकेपूष्णवेदना । एते च द्वे अपि वेदने चतुर्थपृथिव्यपेक्षयाऽनन्तगुणे । षष्ट्यां च तमःप्रजानिधानायां पृथ्व्यां केवला शीतवेदना, सा च पञ्चमपृथिव्यपेक्षयाऽतिकष्टतरा । ततोऽपि या सप्तम्यां शीतवेदना साऽतिकष्टतमा । योऽपि च पुफलानां बन्धनगतिसंस्थाननेदवर्णगन्धरसस्पर्शागुरुलघुशब्दरूपो दशविधः परिणामः सोऽपि नर| केषु तथाक्षेत्रस्वाजाव्यादतिपीमाजनकः । तथाहि - यस्तैः तै पुलैः प्रतिक्षणमाहार्यैः सह संबन्धलक्षणो बन्धनपरिणामः स महाग्यादिसंबन्धादप्यधिकवेदनः । योऽपि चोष्ट्रादिरूपो गतिपरिणामः स तप्तलोहादिपदन्यासादधिकतरपीका
SR No.600332
Book TitleBruhat Sangrahani
Original Sutra AuthorN/A
AuthorJinbhadragani Kshamashraman, Malaygirisuri, Vijaydansuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy