________________
वृहत्सं०
॥ ०६ ॥
व्याख्या - पर्याया शरीरपर्याप्तिलक्षणया पर्याप्तो भवति ज्ञातव्यो देवों निन्नमुहूर्त्तेनान्तर्मुहूर्त्तेन । तथाऽनुसमय मे - कैकेन समयेन पर्याप्तीराहारेन्द्रियानप्राणजापामनः पर्याप्तीगृह्णाति दिव्येन रूपेण दिव्यप्रभावपरिकलितः । इयमत्र जाव - ना - इह सर्वेषामपि जीवानामाहारपर्यातिरेकसमयेनैव निष्पत्तिमासादयति, एतच्च पञ्चसङ्ग्रहटीकादौ चर्चितमिति न जूयश्चर्च्यते । वैक्रियाहारकशरीरिणां त्वाहारेन्द्रियानप्राणजाषामनःपर्याप्तयः पञ्चाप्येकैकनव समयेन समाप्यन्ते, शरीरपर्या तिस्त्वन्तर्मुहूर्त्तेन, श्रदारिकशरीरिणां त्वाहारपर्याप्तिं मुक्त्वा शेषाः पञ्चापि प्रत्येकमन्तर्मुहूर्त्तेन समाप्तिमनुवते, आहारपर्याप्तिस्त्वेकेन समयेनेति ॥ २१९ ॥
1
इह देवाः सहजाविनाऽवधिज्ञानेन परिकलिता जवन्ति । यदुक्तं - " जवप्रत्ययो नारकदेवानां ” इति, तत्र के देवाः कियत्क्षेत्रमवधिना पश्यन्त्येतन्निरूपणार्थमाह
सक्कीसाषा पढमं, डुच्चं च सकुमारमाहिंदा । तच्चं च बंजलंतग सुकसहस्सार य चलत्रिं ॥ २२० ॥
व्याख्या - शक्रेशानाविन्द्रौ उपलक्षणमेतत्, इन्सामानिकादयश्चोत्कृष्टायुषः, एवं सर्वत्राप्युपलचणव्याख्यानं अष्टव्यं प्रथमां रत्नप्रनाख्यां पृथिवीं यावजलप्रजायाः पृथिव्या अधस्तनं जागं यावदित्यर्थः, अवधिना पश्यतः । | सनत्कुमार माहेन्द्रा विन्त्रौ द्वितीयां शर्कराप्रजां पृथिवीं यावचर्कराप्रजायाः पृथिव्या अधस्तनं सर्वान्तिमं चरमं जागं यावदित्यर्थः । एवमुत्तरत्रापि जावनीयं । ब्रह्मलोकलान्तकौ तृतीयां वालुकाप्रजां यावत् । शुक्रसहस्रारौ चतुर्थी पङ्कप्रजां यावत् ॥ २२० ॥
| सटीक ||
॥ ८६ ॥