SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ वृहत्सं ० ॥ 99 ॥ चाराः कायेन शरीरेण मनुप्यस्त्रीपुंसानामित्र प्रवीचारो मैथुनोपसेवनं येषां ते तथा । धौ चेमावादिमौ कस्पौ मर्यादार्थों, तेन किमुक्तं जवति ? जवनपत्यादय ईशान देवलोकपर्यन्ताः संक्लिष्टोदर्कपुरुषवेदकर्मप्रजावतो मनुष्यवन्मैथुनसुखमनुप्र - लीयमानाः सर्वाङ्गीणं कायक्लेशजं संस्पर्शसुखमवाप्य प्रीतिमासादयन्ति नान्यथेति । ततः परौ धौ कटुपौ सनत्कुमारमाहेन्द्ररूपौ स्पर्शेन स्तन जुजोरुजघनादिगात्रसंस्पर्शतः प्रवीचारवन्तौ, अत्रापि तात्स्थ्यात्तद्व्यपदेश इति न्यायात्सनत्कुमा|रमाहेन्द्र देवाः स्पर्शप्रवी चारा इति प्रतिपत्तव्यं, तथाहि - सनत्कुमारमाहेन्द्र देवाः प्रवीचाराभिलाषुकतया देवीनां स्तनाद्यवयवानां संस्पर्शेन कायप्रवी चारादनन्तगुणं सुखमनुनुञ्जते तृप्ताश्च जवन्ति । देवीनामपि च तथा संस्पर्शे दिव्यप्रजा|वतः शुक्रपुजलसंचारतोऽनन्तगुणं सुखमुपजायते । तथोपरितनौ घौ कपौ ब्रह्मलोकलान्तकानिधानौ रूपेण रूपमात्रदर्शनेन प्रवीचारवन्तौ ब्रह्मलोकलान्तकदेवा हि सुरसुन्दरीणां मनोजवराजधानी स्थानीयं दिव्यमुन्मादजनकं रूपमुपलच्य कायप्रवी चारादनन्तगुणं सुरतसुखमासादयन्ति तृप्ताश्च जायन्ते । देवीनामपि च तैस्तथारूपावलोकने दिव्यप्रभावतः शुक्रपुजलसङ्क्रमेण कायप्रवी चारादनन्तगुणमुपजायते कानसुखं । तत उपरितनौ द्दौ कट्पो शब्दे शब्दमात्रश्रवणेन प्रवीचारवन्तौ प्रवीचारेवाविषयी कृतदेवी सत्कगीत हसितस विकार जाषितनू पुरादिदिव्यध्वनिश्रवणमात्रत एव तत्रत्यदेवानां कायप्रवी चारादनन्त गुणसुखमुद्भवति । देवीनामपि च दिव्यप्रभावतः शरीरेषु शुक्रपुजलसङ्क्रमतो महत्सुखमुपजायत इति | जावः । तथोपरितनाश्चत्वार श्रानतप्राणतारणाच्युतकपवास्तव्या देवा मनसा प्रवीचारवन्तः, ते हि यदा प्रवीचारेया देवीर्मनसो विषयीकुर्वन्ति, तदैव ताः कृताङ्गुतश्टङ्गारा मनसैव स्वस्थानस्थिता एवोच्चावचानि मनांसि संप्रधारयन्त्यो नटीकः ॥ 11 93
SR No.600332
Book TitleBruhat Sangrahani
Original Sutra AuthorN/A
AuthorJinbhadragani Kshamashraman, Malaygirisuri, Vijaydansuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy