________________
उपासक दशाः
॥६१॥
उ० ६
तृतीयाध्ययनस्य विवरणम् ।
'तओ मंखसोल्ले' त्ति त्रीणि मांसशूल्यकानि शूले पच्यन्ते इति शूल्यानि त्रीणि मांसखण्डानीत्यर्थः, 'आदाणभरिसित्ति आदाणम्आद्रहणं यदुदकतैलादिकमन्यतरद्रव्यपाकायाग्नावुत्ताप्यते तद्भुते, 'कडासित्ति कटाहे - लोहमयभाजनविशेपे, आद्रयामि - उत्क्वाथया - मि । 'आयञ्चामि' त्ति आसिचामि || 'एस णं तए विदरिसणे दिट्ठे' ति एतच्च त्वया विदर्शनं विरूपाकारं विभीषिकादि दृष्टम् — अब लोकितमिति । 'भगव्वए त्ति भग्नव्रतः, स्थूलप्राणातिपातविरतेर्भावतो भग्नत्वात् तद्विनाशार्थं कोपेनोद्धावनात् सापराधस्यापि व्रतविषयीकृतत्वात्, 'भग्ननियमः' कोपोदयेनोत्तरगुणस्य क्रोधाभिग्रहरूपस्य भग्नत्वात् 'भग्नपोषधः' ऊव्यापार पौषधभङ्गत्वात् । 'एयरस' द्वितीयार्थत्वात् षष्ठ्याः, एतमर्थमालोचय - गुरुभ्यो निवेदय, यावत्करणात् पडिक्कमाहि-निवर्तस्व निन्दाहि आत्मसाक्षिकां कुत्तां कुरु गरिहाहि — गुरुसाक्षिकां कुत्सां विधेहि, विउट्टा हि वित्रोटय-तद्भावानुबन्धच्छेदं विधेहि, विसोहे हि - अतिचारमलक्षालनेन अकरणयाए अहि-तदकरणाभ्युपगमं कुरु, 'अहारिहं तवोकम्मं पायच्छित्तं पडिवज्जाहि' त्ति प्रतीतम् । एतेन च निशीथादिषु गृहिणं प्रति प्रायश्चित्तस्याप्रतिपादनान्न तेषां प्रायश्चित्तमस्तीति ये प्रतिपद्यन्ते तन्मतमपास्तम्, साधूदेशेन गृहिणोऽपि प्रायश्चित्तस्य जीवितव्यवहारानुपातित्वान |
|| इति उपासकदशानां तृतीयाध्ययनस्य विवरणं समाप्तम् ||
३ अध्यय नम् ।
॥ ६१॥