________________
उपासक
दशाः
॥५०॥
प्रपञ्च्यते—'अपरिमियबलविरयते यमाहृप्पकंतिजुत्ते' अपरिमितानि यानि बलादीनि तैयुक्तो यः स तथा तत्र बलं - शारीरः प्राणः, वीर्यं - जीवप्रभवः, तेजो दीप्तिः, माहत्म्यं महानुभावता, कान्तिः - काम्यता, 'सारयनवमेथणि महुर निघोस दुन्दुभिसरे' शरत्का लप्रभवाभिनवमेघशब्द वन्मधुरो निर्घोषो यस्य दुम्दुभेरिव च स्वरो यस्य स तथा । 'उरे वित्थढाए' उरसि सरस्वत्येति सम्बन्धः, विस्तृतया [उरसो विस्तीर्णत्वात् ] 'कण्ठे पवट्टियाए' गलविवरस्य वर्तुलत्वात्, 'सिरे संकिण्णाए' मूर्धनि सङ्कीर्णया, आयामस्य मूर्ध्ना स्खलितत्वात्, 'अगरलाए' व्यक्तवर्णयेत्यर्थः, 'अमम्मणाए' अनवखञ्च्यमानयेत्यर्थः सव्वक्खरसन्निवाइयाए' सर्वाक्षर संयोगवत्या, 'पुण्णरत्ताए' परिपूर्णमधुरया, 'सव्वभासाणुगामिणीए' सररसईए भणित्या 'जोयणनीहारिणा सरेणं' योजनातिक्रामिणा शब्देन, 'अद्धमागहाए भासा भासइ अा धम्मं परिकes | अर्धमागधी भाषा यस्यां “ रसोलेशौ मागध्याम् "इत्यादिकं मागधभापालक्षणं परिपूर्ण नास्ति, भापते-सामान्येन भणति । किंविधो भगवान् ? अर्हन्- पूजितो पूजोचितः, अरहस्यो वा सर्वज्ञत्वात् कम् ? 'धर्म' श्रद्धेयज्ञेयानुष्ठेयवरतुश्रद्धानज्ञानानुष्ठानरूपम् । तथा परिकथयति अशेषविशेषकथनेनेति । तथा 'तेसिं सव्वेसिं आरियमणःरियाणं अगिलाए धम्ममाइक्खइ' न केवलं ऋपिपदादीनाम्, ये बन्दनाद्यर्थमागतास्तेषां च सर्वेषामार्याणाम् आर्यदेशोत्पन्नानाम्, अनार्याणां म्लेच्छानामग्लान्या- अखेदेनेति । 'साऽवि य णं अद्धमागहा भासा तेसिं आरियमणारियाणं अपणो भासाए परिणामेण परिणमइ' स्वभाषापरिणामेनेत्यर्थः । धर्मकथामेव दर्शयति- 'अस्थि लोग अस्थि अलोए, एवं जीवा अजीवा वन्थे मोक्खे पुणे पावे संवरे वेणा निज्जरा' । एतेषामस्तित्वदर्शनेन शुन्यज्ञाननिरात्म द्वैितैकान्तक्षणिक नित्यवादिनास्तिकादिकुदर्शननिराकरणात् परिणामिवस्तुप्रतिपादनेन सकलैहिकामुष्मिक क्रियाणामनवद्यत्वमावेदितम् । तथा 'अस्थि अरहन्ता चक्की वलदेवा वासुदेवा नरंगा नेरइया तिरिक्खजोणिया तिरिक्खजोणिगीओ माया पिया रिसओ देवा देव लोया सिद्धी सिद्धा परिणिव्वाणे परिणिया । सिद्धिः कृतकृत्यता, परिनिर्वाणं-सकलकर्मकृतविकारविरहादतिस्वास्थ्यम् एवं सिद्धपरिनिर्वृतानामपि विशेषोSवसेयः | तथा अस्थि पाणावा मुसावा अदिष्णादाणे मेहुणे परिग्गद्दे, अस्थि कोई माणे माया लोभ पेज्जे दो से कलहे अभक्खाणे
२ अध्यय
नम् ।
॥५०॥