SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ उपासक १ अध्ययनम् । ॥२१॥ ACCOU ॥२१॥ सम्यक्त्वं च सातिचारमुदयविशेषान्निरतिचारं च भवतीति, एवं तृतीयोदये सरागचरणं भ्रश्यति, देशविरतस्य तु देशविरतिसम्यक्त्वे सातिचारे निरतिचारे च प्रत्येकं तथैव स्याताम् , द्वितीयोइये देशविरतिभ्रंश्यति, सम्यक्त्वं तु तथैव द्विधा स्यात, प्रथमोदये तु सम्यक्त्वं भ्रश्चतीति, एवं चतत् , कथमन्यथा सम्यक्त्वातिचारेषु देशिकेषु प्रायश्चित्तं तप एव निरूपितम् , सार्विकेषु तु मूलमिति । अथानन्तानुबन्ध्यादयो द्वादश कषायाः सर्वघातिनः सज्वलनास्तु देशघातिन इति, ततश्च सर्वघातिनामुदये मूलमेव, देशघातिनां त्वतिचार इति, सत्यम् , किन्तु यदेतत्सर्वघातित्वं द्वादशानां कषायाणां तत्सर्वविरत्यपेक्षमेव शतकचूर्णिकारेण व्याख्यातं न तु सम्यक्त्वाद्यपेक्षमिति । तथा हि तद्वाक्य-" भगवप्पणीयं पञ्चमहव्वयमइयं अट्ठारससीलङ्गसहस्सकलियं चारित्त घाएन्ति त्ति सव्वघाइणो"त्ति । किश्च प्रागुपदशितायाः 'जारिसओ' इत्यादिगाथायाः सामर्थ्यादतिचारभङ्गो देशविरतिसम्यक्त्वयोः प्रतिपत्तव्याविति । 'अपन्छिभ' इत्यादि । पश्चिमैवापश्चिमा मरणं-प्राणत्यागलक्षणं तदेवान्तो मरणान्तः तत्र भवा मारणान्तिकी, संलिख्यते-कृशीक्रियते शरीरकषायाद्यनयेति संलेखनातपोविशेषलक्षणा, ततः पदत्रयस्य कर्मधारयः, तस्या जोषणा-सेवना तरया आराधना, अखण्डकालकरणमित्यर्थः अपश्चिममारण,न्तिकसंलेखनाजोषणाधिना, तस्याः । 'इहलोगे'त्यादि। इहलोको-मनुष्यलोकः तस्मिन्नाशंसा-अभिलाषः तस्याः प्रयोग इहलोकाशंसाप्रयोगः, 'श्रेष्ठी स्यां जन्मान्तरेऽमात्यो वा' इत्येवंरूपा प्रार्थना १ । एवं परलोकाशंसाप्रयोगो 'देवोऽहं स्याम्' इत्यादि । 'जीविताशंसाप्रयोगो' जीवितं-प्राणधारणं तदाशंसायाः-तदभिलाषस्य प्रयोगो 'यदि बहुकालमहं जीवेयम्' इति । अयं हि संलेखनावान्कश्चिद्वस्त्रमाल्यपुस्तक वाचनादिपूजादर्शनाद् बहुपरिवारावलोकनाल्लोकशाघाश्रवणाच्चवं मन्येत, यथा 'जीवितमेव श्रेयः, प्रतिपन्नानशनस्यापि यत एवंविधामदुद्देशेन विभूति वतते' इति ३ । 'मरणाशंसाप्रयोगः' उक्तस्वरूपपूजाद्यभावे भावयत्यसो 'यदि शीघ्र म्रियेऽहं' इति स्वरूप इति ४ । कामभोगाशंसाप्रयोगो 'यदि मे मानुष्यकाः कामभोगा दिव्या वा सम्पद्यन्ते तदा साधु' इति विकल्परूपः ॥५॥ १ भगवत्पणीतं पचमहानतमयं अष्टादशशीलाङ्गसहयकलितं चारित्रं घातयन्तीति सर्वघातिन इति । L DRESCAMS
SR No.600330
Book TitleUpasakdashang Sutram
Original Sutra AuthorN/A
AuthorArunvijay Maharaj
PublisherMahavir Jain Sahitya Prakashan
Publication Year1982
Total Pages288
LanguageSanskrit
ClassificationManuscript & agam_upasakdasha
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy