SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ उपासक दशा: १ अध्ययनम्। ||२०|| ॥२०॥ सम्प्रत्ययार्थ भणनम् , अथवा अस्मादानान्मम मात्रादेः पुण्यमस्त्विति भणनमिति ४। 'मत्सरिता' अपरेणेदं दत्तं किमहं तस्मादपि कृपणो हीनो वा अतोऽहमपि ददामि इत्येवरूपो दानप्रवर्तकविकल्पो मत्सरिता ५। एते चातिचारा एव, न भङ्गाः, दानार्थमभ्युत्थानाद् दानपरिणतेश्च दूषितत्वाद्, मङ्गस्वरूपस्य चेवमभिधानाद् , यथा-दाणन्तरायदोसा न देइ दिज्जन्तयं च वारेइ । विष्णे वा परितप्पइ इति किवणत्ता भवे मगो ॥१॥ आवश्यक टीकायां हि न भङ्गातिचारयो विशेषोऽस्माभिरवबुद्धः, केवलमिह भङ्गाद्विवेक कुर्वद्भिरस्माभिर तिचाय पाख्याताः, सम्प्रदायात् नवपदादिपु तथा दर्शनात । “जारिसओ जइभेओ जह जायइ जहेव तत्थ दोसगुणा । जयणा जह अइयारा भङ्गा तह भावणा नेया ।।२।। इत्यस्या आवश्यकचूण्या पूर्वगतगाथा या दर्शनात् , अतिचारशब्दस्य सर्वभङ्गे प्रायोऽप्रसिद्धत्वाच्च, ततो ने | शकुनीय एतेऽतिचारा उक्तास्ते भङ्गा एवेति । तथा य एते प्रतिव्रतं पञ्च पञ्चातिचारास्त उपलक्षणमतिचारान्तराणामवसे या न ववधारणम् । यदाहुः पूज्याः-३पञ्च पञ्च इयाराओ, सुत्तम्मि जे पसिया । ते नावहारणट्राए, किन्तु ते उवलक्खणं" ॥१॥ इति । इ चेह तत्त्वम्यत्र व्रतविषयेऽनामोगादिनाऽविक्रमादिपर नयेण वा स्वबुद्धिकल्पनया वा व्रतसापेक्षतया व्रतविषयं परिहारतः प्रवृत्तिः सो तिचारो, विपरीततायां तु भंगः, इ.येवं सङ्कीर्णातिचारपदगमनिका कार्या । अथ सर्वविरतावेवातिचारा भवन्ति, देशविरतौ तु भङ्गा एव, यदाह"४सव्वेऽवि य अइयारा सञ्जलणाणं तु उपराओ हुन्ति । मूलच्छेज्ज पुण होइ बारसह कसायाण" ।। १।। ॐत्रोच्यते, इयं हि गाथा सर्व विरता वेवातिचारमंगोपः शनार्था, न देशविरत्यादिभङ्गर्शनार्था, तथैव वृत्ती व्याख्यातत्वात् । तथा सज्वलनोदयविशेषे सर्वविरतिविशेपस्यातिचारा एव भवन्ति, न मूलच्छे, प्रत्याख्यानावरणादीनां तूदये पश्चानुपूर्ध्या सर्वविरत्यादीनां मूलतः छेदो भवतीत्येवंभूतव्याख्यानान्तरेऽपि न देशविश्त्यादायतिचारामायः सिध्यति, यतो यथा संयतस्य चतुर्थानामुदये यथाख्यातचारित्रं भ्रश्यति इतरचारित्रं १ दानान्तरायदोपात् न ददाति ददनं च वारयति । दते वा परितप्यति इति कृपणत्वाद् भवेद्भगः ।।१।। २ यादृशो यतिभेदा यथा जायते यथैव तत्र दोपगुणाः। यतना यथाऽतिचारा भास्तथा भावना ज्ञेया ।।२।। ३ पञ्च पञ्चातिचारास्तु सूने ये प्रदर्शिताः । ते नावधारणार्थ किन्तु ते उपलक्षणम् ।।३।। ४ सर्वेऽपि चातिचाराः संज्वलनानामुदयतो भवन्ति । मूलच्छेद्यं पुनर्भवति द्वादशानां पायाणाम् ।।१।।
SR No.600330
Book TitleUpasakdashang Sutram
Original Sutra AuthorN/A
AuthorArunvijay Maharaj
PublisherMahavir Jain Sahitya Prakashan
Publication Year1982
Total Pages288
LanguageSanskrit
ClassificationManuscript & agam_upasakdasha
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy