________________
५१ अध्यय
उपासक दशाः
नम् ।
॥१६॥
॥१६॥
कन्दप्पे, कुक्कुइए, मोहरिए, संजुत्ताहिगरणे, उवभोगपरिभोगाइरित्ते ८ । तयाणन्तरं च णं सामाइयस्स समणोवासएणं पञ्च अइयारा जाणियब्वा न समायरियव्वा । तं जहा-मण दुप्पणिहाणे, वयदुप्पणिहाणे, कायदुप्पणिहाणे, सामाइयस्स सइअकरणया, सामाइयस्स अणवट्ठियस्स करणया ९ । तयाणन्तरं च णं देसावगासियस्स तत्करणेनापि भक्षणेऽतिचारो भवति, व्रतसापेक्षत्वात्तस्येति ५। इह च पञ्चातिचारा इत्युपलक्षणमात्रमेवावसेयम् , यतो मधुमद्यमांसरात्रिभोजनादिवतिनामनाभोगातिक्रमादिभिरनेके ते सम्भवन्तीति ।। 'कम्मओ णं' इत्यादि । कर्मतो यदुपभोगवतं 'खरकर्मादिक कर्म प्रत्याख्यामि' इत्येवरूपम् , तत्र श्रमणोपासकेन पञ्चदश कर्मादानानि वजनीयानि । 'इङ्गालकम्मे' त्ति अङ्गारकरणपूर्वकस्तद्विक्रयः एवं यदन्यदपि वहिनसमारम्भपूर्वक जीवनमिष्टकाभाण्डकादिपाकरूपं तदङ्गारकर्मेति ग्राह्यम् , समानस्वभावत्वात् । अतिचारता चास्य कृततत्प्रत्याख्यानस्यानाभोगादिना अत्रैव वर्तनादिति, एवं सर्वत्र भावना कार्या १। नवरं 'वनकर्म' बनस्पतिच्छेदनपूर्वकं तद्विक्रयजीवनम् २ । 'शकटकर्म' शकटानां घर नविक्रयवाहनरुपम् ३, 'भाटककर्म' मूल्याथ गन्त्र्यादिभिः परकीयभावहनम् ४, 'स्फोटकर्म' कुद्दालहलादिभिभूमिदारणेन जीवनम् ५, 'दन्तवाणिज्य' हस्तिदन्तशङ्खपूतिकेशादीनां तत्कर्मकारिभ्यः क्रयेण तद्विक्रयपूर्वक जीवनम् ६, 'लाक्षावाणिज्य' सञ्जातजीवद्रव्यान्तरविक्रयोपलक्षणम् ७, 'रसवाणिज्य' सुरादिविक्रयः ८, 'विषवाणिज्यं' जीवघातप्रयोजनशस्त्रादिविक्रयोपलक्षणम् ५, 'केशवाणिज्य' केशवतां दासगबोष्ट्रहस्त्यादिकानां विक्रयरूपम् १०, 'यन्त्रपीडनकर्म' यन्त्रेण तिलेनुप्रभृतीनां यत्पीडनरूपं कर्म तत् ११, तथा 'निर्लान्छनकर्म' वर्धितककरणम् १२, दवाग्नेः-वनाग्नेन–वितरणं क्षेत्रादिशोधननिमित्तं दवाग्निदानमिति १३, 'सरोहदतडागपरिशोषणता' तत्र सरः-स्वभावनिष्पन्नम् , हृदो-नद्यादीनां निम्नतरः प्रदेशः, तडाग-खननसम्पन्नमुत्तानविस्तीर्णजलस्थानं, एतेपां शोषणं गोधूमादीनां वपनार्थम् १४, ‘असतीजनपोपणता' असतीजनस्य-दासीजनस्य पोपणं तद्भाटिकोपजीवनार्थ यत्तत् तथा, एवमन्यदपि क्रूरकर्मकारिणः
१ कुक्कुए घ.