________________
उपासक
[शाः
॥१५॥
कम्मओ णं समणोवासरणं पण्णरस कम्मादाणाई जाणियव्वाई, न समायरियच्चाई, तं aणकम्मे, साडीकम्मे, भाडीकम्मे, फोडीकम्मे, दन्तवाणिज्जे, लक्खवाणिज्जे, रसवाणिज्जे, सवाणिज्णे, जन्तपीलणकम्मे, निल्लंउणकम्मे, दवग्गिदावणया, सरदहतलाव सोसणया, असईजणपोसणया ७। तयाणन्तरं चणं अणद्वादण्डवेरमणस्स समणोवासरणं पञ्च अइयारा जाणियव्वा न समायरियन्वा । तं जहास्मृतिभ्रंशः किं मया तं गीतं शतमर्यादया पञ्चाशन्मर्यादया वा' ? इत्येवमस्मरणे योजनशतमर्यादायामपि पञ्चाशतमतिक्रामतोऽयमतिचारोऽवसेय इति ५ । 'भोयणओ कम्मओ य' त्ति । भोजनतो भोजनमाश्रित्य बाह्याभ्यन्तरभोज नीयवस्तून्यपेक्ष्येत्यर्थः ' कर्मतः क्रियां जीवनवृत्तिं बाह्याभ्यन्तरभोजनीयवस्तुप्राप्तिनिमित्तभूतामाश्रित्येत्यर्थः । 'सचित्ताहारे' त्ति । सचेतनाहारः पृथिव्यत्कायवनस्पतिकायजीवशरीरिणां सचेतनानामभ्यवहरणमित्यर्थः । अयं चोतिचारः कृतसचित्ताहारप्रत्याख्यानस्य कृततत्परिमाणस्य वाडनाभोगादिना प्रत्याख्यातं सचेतनं भक्षयतस्तद्वा प्रतीत्यातिक्रमादौ वर्तमानस्य १ । 'सचित्तपडिबद्धाहारे' त्ति । सचित्ते वृक्षादौ प्रतिबद्धस्य गुन्दादेरभ्यवहरणम्, अथवा सचित्ते अस्थिके प्रतिवद्धं यत्पक्वमचेतनं खर्जूरफलादि तस्य सास्थिकस्य कटाहमचेतनं भक्षयिष्यामीतरत्परिहरिष्यामि इति भावनया मुख क्षेपणमिति । एतस्य चातिचारत्वं व्रतसापेक्षत्वादिति २ । 'अप्पडलि ओसहिभक्खणय' त्ति अपक्वायाः - अग्निनाऽसंस्कृ ताया ओषधेः शाख्यादिकाया भक्षणता भोजनमित्यर्थः । अस्याप्यतिचारतानाभोगादिनैव । ननु सचित्ताहाराविचारेणैव अस्य संगृहीतत्वात् किं भेदोपादानेनेति ? उच्यते, पूर्वोक्तपृथिव्यादिस चित्तसामान्यापेक्षया ओषधीनां सदाभ्यवहरणीयत्वेन प्राधान्यख्यापनार्थम्, दृश्यते च सामान्योपादाने सत्यपि प्राधान्यापेक्षया विशेषोपादानमिति ३ । 'दुप्पउलिओसहिभक्खणया' दुष्पक्वा: - अस्विन्ना (अर्धस्विन्ना) ओषधयस्तद्भक्षणता, अतिचारता चास्य पक्वबुद्ध्या भक्षयतः ३ । 'तुच्छोस हिभक्खणय' त्ति । तुच्छा:- असारा ओषधयः- अनिष्पन्नमुगफलीप्रभृतयः तद्भक्षणे हि महती विराधना स्वल्पा च तत्कार्या तृप्तिरिति विवेकिनाऽचित्ताशिना ता अचित्तीकृत्य न भक्षणीया भवन्ति,
जहा - इङ्गालकम्मे, विसवाणिज्जे,
१ अध्यय नम् ।
॥१५॥