________________
उपासक
।१४॥
क्षेत्रप्रमाणातिक्रमोऽतिचार एव, व्रतसापेक्षत्वात्तस्येति १ । 'हिरण्णसुवष्णपमाणाइक्कमे 'त्ति प्राग्वत् , अथवा राजादेः सकाशाल्लब्धं हिर
1४१ अध्ययण्याद्यभिग्रहावधि यावदन्यस्मै प्रयच्छतः 'पुनरवधिपूर्ती ग्रहीष्यामि' इत्यध्यवसावरतोऽयमतिचाररतथैवेति २ । 'धणचन्नपमाणाइक्कमेत्ति
नम् । अनाभोगादेरथवा लभ्यमान धनाद्यभिग्रहावधि यावत्परगृह एव बन्धनबद्धं कृत्वा धारयतोऽतिचारोऽयमिति ३ । 'दुपयचउपयपमाणाइक्कमे' त्ति अयमपि तथैव, अथवा गोबडवादिचतुष्पदयोषित्सु यथा अभिग्रहकालावधिपूर्ती प्रमाणाधिकवत्साहिचतुष्पढ़ोत्पत्तिभवति
॥१४॥ तथा षण्डादिकं प्रक्षिपतोऽतिचारोऽयम्, तेन हि जातमेव वत्सादिकमपेक्ष्य प्रमाणातिक्रमस्य परिहतत्वाद् गर्भगतापेक्षया तस्य सम्पन्नत्वा दिति ४ । 'कुवियपमाणाइकमे' त्ति कुष्य-गृहोपस्करः स्थालकच्चोलकादि, अयं चातिचारोऽनामोगादिना । अथवा पञ्चैव स्थालानि परिग्रहीतव्यानी यादभिग्रहवतः कस्याप्यधिकतराणां तेषां सम्पत्तौ प्रत्येक द्वयामेिलनेन पूर्वसंख्यावस्थापनेनातिचारोऽयमिति ५ । आह च-खेत्ताइहिरण्णाइधणाइदुपयाइकुप्पमाणकमे । जोयणपवाणबन्धणकारणभावेहि नो कुज्जा ॥१॥" दिव्रतं शिक्षाबतानि च यद्यपि पूर्व नोक्तानि तथापि तत्र तानि द्रष्टव्यानि, अतिचारभणनस्यान्यथा निरवकाशता स्था िहेति, कथमन्यथा प्रागुक्तं "दुवालसविहं सावगधम्म पडिवज्जिस्सामि” इति कथं वा वक्ष्यति--"दुवालराविहं सावगधम्म पडिवजइ” इति । अथवा सामायिकादी नामित्वरकालीन वेन प्रतिनियतकालकरणीयत्वान्न तदैव तान्यसौ प्रतिपन्नवान , दिग्वतं च विरतेरभावाद् उचितावसरे तु प्रतिमत्स्यत इति भगवतस्तदतिचारवर्जनोपदेशनमुपपन्नम् , यच्चोक्तं 'द्वादशविधं गृहिधर्म प्रतिपस्ये, यच्च वक्ष्यनि-द्वादशाविधं श्रावकधर्म प्रतिपद्यते तद् यथाकालं तत्करणाभ्युपगमनादनवद्यमवसेयमिति । तत्र 'उदिसिपमाणाइकमे' त्ति । क्वचिदेवं पाठः, क्वचित्त 'उड्ढदिसाइक्कमे' त्ति । एते चोर्ध्व दिगाद्यतिक्रमा अनाभोगादिनाऽतिचारतयाऽवसे याः १-३ । 'खेत्तबुढि'त्ति । एकनो योजनशतपरिमाणमभिगृहीतमन्यतो दश योजनान्यभिग्रहीतानि, ततश्च यस्यां दिशि दश चोजनानि तम्यां दिशि समुत्पन्ने कार्य योजनशतमध्यादपनीयान्यानि दश योजनानि नत्रैव स्वबुद्ध्या प्रक्षिपति, संवर्धयत्येकत इत्यर्थः । अयं चातिचारो बनसापेक्षत्वादवसेयः ४ । 'सइअन्नद्ध' ति । स्मृत्यन्तर्धा-स्मृत्यन्तर्धानं
१ क्षेत्रादि १ हिरण्यादि २ धनादि ३ द्विपदादि ४ कुप्यमान ५ क्रमान् । योजन १ प्रदान २ बन्धन ३ कारण ४ भाव: ५ नो कुर्थात् ||१||
SACRACRORICRACROREGA-%%