________________
उपासक दशाः
॥१३॥
उ० २
सचित्ताहारे, सचित्तपडिबद्धाहारे, अप्पउलिओसहिभक्खणया, दुप्पउलिओ सहिभक्खणया, तुच्छो सहिभक्खणया न्यूनाभ्यां ददतोऽधिकाभ्यां गृह्णतोऽतिचरति व्रतमिति अतिचारहेतुत्वादतिचारः कूटतुला कूटमानमुक्तः, अतिचारत्वं वास्यानाभोगादेः, अथवा 'नाहं चौरः क्षात्रखननादेरकरणात्' इत्यभिप्रायेण व्रतसापेक्षत्वात् ४ । 'तप्पडिरूवगववहारेत्ति तेन अधिकृतेन प्रतिरूपकं - सदृशं तत्प्रतिरूपकं तस्य विविधमवहरणं व्यवहारः- प्रक्षेपस्तत्प्रतिरूपकव्यवहारः, यद्यत्र घटते त्रीहिवृतादिषु पलञ्जीवसादि तस्य प्रक्षेप इति यावत् तत्प्रतिरूपकेन वा वसादिना व्यवहरणं तत्प्रतिरूपकव्यवहारः, अतिचारता चास्य पूर्ववत् ५। 'सारसन्तोसीए' त्ति खदारसन्तुष्टेरित्यर्थः, 'इत्तरियपरिग्गहियागमणेत्ति इत्वरकालपरिगृहीता कालशब्द लोपादित्व र परिगृहीता-भाटीप्रदानेन क्रियन्तमपि काल दिवसमासादिकं स्ववशीकृतेत्यर्थः, तस्यां गमनं मैथुना सेवन मित्वरपरिगृहीतागमनम् अतिचारता चास्यातिक्रमादिभिः १ । ' अपरिगहियागमणे ' ति अपरिगृहीता नाम वेश्या अन्यसत्का परिगृहीतभाटिका कुलाङ्गना वा अनाथेति, अस्वाप्यतिचारताऽतिक्रमादिभिरेव २। 'अणङ्गकीड'त्ति अङ्गानि मैथुनकर्मापेक्षया कुचकक्षोरुवदनादीनि तेषु क्रीडनमनङ्गक्रीडा, अतिचारता चास्य स्वदारेभ्योऽन्यत्र मैथुन परिहारेणानुरागादालिङ्गनादि विधतो व्रतमालिन्यादिति ३ । 'परविवाहकरणे'त्ति परेषाम् आत्मन आत्मीयापत्येभ्यश्च व्यतिरिक्तानां विवाहकरणं परविवाहकरणम्, अयमभिप्रायः स्वदारसन्तोषिणो हि न युक्तः परेषां विवाहादिकरणेन मैथुननियोगोऽनर्थको विशिष्टविरतियुक्तत्वादित्येवमनालयतः परार्थकरणोयततयाऽतिचारोऽयमिति ४ । 'कामभोगतिव्वाभिलासे'त्ति कामौ - शब्दरूपे भोगाः - गन्धरसस्पर्शास्तेषु तीत्राभिलाषःअत्यन्तं तदध्यवसायित्वं कामभोगतीत्राभिलाषः, अयमभिप्रायः स्त्रदारसन्तोत्री हि विशिष्टविरतिमान् तेन च तावत्येव मैथुनासेवा कर्तुमुचिता यावत्या वेदजनिता बाधोपशाम्यति यस्तु वाजिकरणादिभिः कामशास्त्रविहितप्रयोगैश्च तामधिकामुत्पाद्य सततं सुरतसुखमिच्छति स मैथुनविरतिव्रतं परमार्थतो मलिनयति को हि नाम सकर्णकः पामामुत्पाद्याग्निसेवाजनितं सुखं वाञ्छेदिति अतिचारत्वं कामभोगतीत्राभिलाषस्येति ५ । 'खेत्तवत्थुपमाणाइकमे' त्ति क्षेत्रवस्तुनः प्रमाणातिक्रमः प्रत्याख्यानका लगृहीतमा नोहङ्घनमित्यर्थः, एतस्य चातिचारत्वमनाभोगादिनाऽतिक्रमादिना वा अथवा एकक्षेत्रादिपरिमाणकर्तुस्तदन्यक्षेत्रस्य वृतिप्रभृतिसीमापनयनेन पूर्वक्षेत्रे योजनान्
१ अध्यय
नम् ।
॥१३॥