________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधा
ख्या लघु
वृतिः । ॥३६९॥
व्याख्या — स्पष्टम् | नवरम् — “गंधवासाणं" ति गन्धाञ्च - कोष्ठपुटपाकनिष्पन्नाः वासाञ्च - इतरे गन्धवासाः, इह चैतदङ्गान्येवोपचारादेवमुक्तानि तेषाम्, इह चाऽनुक्तोऽपि गन्धविशेषो लेश्यानां तारतम्येनाऽवसेय इति सूत्रद्वयार्थः ॥ १६-१७ ॥ सम्प्रति स्पर्शमाह -
जह करगयस्स फासो, गोजिन्भाए व सागपत्ताणं । इत्तो वि अनंतगुणो, लेसाणं अप्पसत्थाणं ॥ १८ ॥ जह बूरस्स वि फासो, नवणीयस्स व सिरीसकुसुमाणं । इत्तो वि अनंतगुणो, पसत्थलेसाण तिच्हं पि ॥ १९ ॥
व्याख्या - स्पष्टम् । नषरम् — यथाक्रममप्रशस्तानां प्रशस्तानां च ऋकचादि-बूरादिसमः स्पर्शो वाच्यः ॥ १८-१९॥ परिणामद्वारमाह
तिविहो व नवविहो वा, सत्तावीसइविहिकसीओ वा । दुसओ तेयालो वा, लेसाणं होह परिणाम् ॥ २० ॥
व्याख्या – स्पष्टम् । नवरम् — 'त्रिविधः' जघन्यमध्यमोत्कृष्टभेदेन, 'नवविधः' यदैषामपि स्वस्थानतारतम्य चिन्तायां प्रत्येकं जघन्यादित्रयेण गुणना, एवं पुनः पुनस्त्रिकगुणनया सप्तविंशतिविधत्वादि भावनीयम् । उपलक्षणचैतत् तारतम्यचिन्तायां, सङ्ख्यानियमस्याऽभावात् । तथा च प्रज्ञापना - "कैण्हलेसा णं भंते ! कइविहं परिणामं परिणमइ ? गोयमा !
१ “कृष्णलेश्या भगवन् ! कतिविधं परिणामं परिणमति ? गौतम ! त्रिविधं वा नवविधं वा सप्तविंशतिविधं वा एकाशीतिविधं वाऽपि यावत् त्रिचत्वारिंशं द्विशतविधं वा बहु वा बहुविधं वा परिणामं परिणमति, एवं यावत् शुकुलेश्या" ।
चतुस्त्रिंशं लेश्याख्य
मध्ययनम् ।
लेश्यानां स्पर्श-परिणामद्वारे ।
।। ३६५ ॥