SearchBrowseAboutContactDonate
Page Preview
Page 744
Loading...
Download File
Download File
Page Text
________________ सम्मत्तं चैव मिच्छत्तं, सम्मामिच्छत्तमेव य । एयाओ तिन्नि पयडीओ, मोहणिज्जस्स दंसणे ॥ ९ ॥ चरित्तमोहणं कम्मं, दुविहं तु वियाहियं । कसायमोहणिज्जं च नोकसायं तहेव य ॥ १० ॥ सोलसविहभेदेणं, कम्मं तु कसायजं । सत्तविह नवविहं वा, कम्मं च नोकसायजं ॥ ११ ॥ नेरइयतिरिक्खाऊ, माणुस्साउं तहेव य । देवाउयं चउत्थं तु, आउकम्मं चउविहं ॥ १२ ॥ नामं कम्मं तु दुविहं, सुहमसुहं च आहियं । सुहस्स उ बहू भैया, एमेव य असुहस्स वि ॥ १३ ॥ गोत्तं कम्मं तु दुविहं, उच्च नीयं च आहियं । उच्चं अट्ठविहं होइ, एवं नीयं पि आहियं ॥ १४ ॥ दाणे लाभे य भोगे य, उवभोगे वीरिए तहा। पंचविहमंतरायं, समासेण वियाहियं ॥ १५ ॥ व्याख्या - सुगमान्येव । नवरम् -- ज्ञानावरणं पञ्चविधम्, तच्च कथं पञ्चविधम् ? इत्याशङ्कायाम् आवार्यभेदादेव इहावरणस्य भेद इत्यभिप्रायेणाऽऽवार्यस्यैव भेदानाह - 'श्रुतमित्यादि ॥ "सायस्स उ बहू भेय" त्ति सातस्य तु बहवो भेदाः तद्धेतुभूतभूतानुकम्पादीनां बहुभेदत्वात् । एवमेवाऽसातस्यापि दुःखशोकादितद्धेतुबहुविधत्वादेव | "सत्तविह नवविहं व” त्ति बिन्दुलोपात् सप्तविधं नवविधं वा कर्म नोकपायजं तत्र सप्तविधं हास्यादिषटुं वेदश्च सामान्यविवक्षयैक एवेति, नवविधं तु तदेव षटुं वेदत्रयसहितम् ॥ " उच्चं अट्ठविहं होइ” त्ति इत्यत्राऽष्टविधत्वं बन्धहेत्वष्टविधत्वात्, अष्टौ हि जात्यमदादय उच्चैर्गोत्रस्य बन्धहेतवः, तावन्त एव च जातिमदादयो नीचैर्गोत्रस्येति सूत्रद्वादशकार्थः ॥ ४-५-६-७-८-९१०-११-१२-१३-१४-१५ ॥ इत्थं प्रकृतयोऽभिहिताः । सम्प्रत्येतन्निगमनायोत्तरग्रन्थसम्बन्धनायाहएयाओ मूलपयडीओ, उत्तराओ य आहिया । पएसग्गं खित्तकाले य, भावं चादुत्तरं सुण ॥ १६ ॥ व्याख्या -- एता मूलप्रकृतयः 'उत्तराश्च' उत्तरप्रकृतय आख्याताः, प्रदेशाः - परमाणवस्तेषामत्रं परिमाणं प्रदेशाभं, कर्मणामुत्तरप्रकृतयः ।
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy