________________
श्रीउत्तरा-1 ध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
त्रयस्त्रिंश कर्मप्रकृतिनामकमध्ययनम् ।
| "खेत्तकाले य" त्ति क्षेत्रकालौ च 'भावं च' अनुभावलक्षणं पर्यायं चतुःस्थानिकादिरसमिति यावत्, “अदुत्तरं" ति अत उत्तरं शृणु कथ्यमानमिति शेष इति सूत्रार्थः ॥ १६ ॥ तत्र तावत् प्रदेशाग्रमाह
सबेसिं चेव कम्माण, पएसग्गमणंतगं। गंठियसत्ताईयं, अंतो सिद्धाण आहियं ॥१७॥ ___व्याख्या-सर्वेपां, 'चः' पूरणे, 'एवः' अपिशव्दार्थः, सर्वेपामपि कर्मणां प्रदेशाग्रम् अनन्तमेवाऽनन्तकं, तच्चानन्तकं ग्रन्धिगसत्त्वाः-ये ग्रन्थिदेशं गत्वाऽपि तद्भेदाऽविधानेन न कदाचिदुपरिष्टाद् गन्तारः ते चाऽभव्या एवाऽत्र गृह्यन्ते तान अतीतं तेभ्योऽनन्तगुणत्वेन अतिक्रान्तं ग्रन्थिगसत्त्वातीतं, तथा 'अन्तः' मध्ये सिद्धानामाख्यातम् , सिद्धेभ्यो हि कर्मपरमाणवोऽनन्तभाग एवेति सूत्रार्थः ॥ १७ ॥ सम्प्रति क्षेत्रमाह
सधजीवाण कम्मं तु, संगहे छद्दिसागयं । सवेसु वि पएसेसु, सवं सवेण बद्धगं ॥ १८॥ व्याख्या-सर्वजीवानां कर्म, 'तुः' पूरणे, 'सङ्घहे' सङ्ग्रहक्रियायां योग्यं भवतीति शेषः। कीदृशं सत् ? इत्याह"छद्दिसागयं" ति षण्णां दिशां समाहारः पदिशं तत्र गतं-स्थितं षड्दिशगतम् , एतच्च द्वीन्द्रियादीनेवाधिकृत्य नियमेन व्याख्येयम् , एकेन्द्रियाणामन्यथाऽपि सम्भवात् । तथा चागमः-एगिंदिया णं भंते ! तेयाकम्मपोग्गलाणं गहणं करेमाणे किं तिदिसिं करेइ चउद्दिसिं करेइ पंचदिसिं करेइ छद्दिसिं करेइ ? गोयमा ! सिय तिदिसिं सिय चउद्दिसिं सिय पंचदिसिं सिय छदिसिं करेइ । बेइंदिया जाव पंचिंदिया नियमा छद्दिसिं" ति । तच्च गृहीतं सत् केन सह कियत् कथं वा बद्धं भवति ? इत्याह-"सबेसु वि पएसेसु" त्ति सुव्यत्ययात् सर्वैरपि 'प्रदेश:' आत्मसम्बन्धिभिः 'सर्व' समस्तं
“एकेन्द्रियो भगवन् ! तैजसकार्मणपुद्गलानां ग्रहणं कुर्वाणः किं त्रिदिशं करोति चतुर्दिशं करोति पञ्चदिशं करोति पइदिशं करोति? | गौतम! स्यात् त्रिविशं स्यात् चतुर्दिशं स्यात् पञ्चदिशं स्यात् षड् विशं करोति । द्वीन्द्रियो यावत् पञ्चेन्द्रियो नियमात् षड्दिशमि"ति ।
कर्मणां परमाणुपरिमाणं क्षेत्रपरिमाणं च।
॥३६६॥
॥३६६॥