________________
वीतरागखरूपम् ।
सो तस्स सबस्स दुहस्स मोक्खो, जं बाहई सययं जंतमेयं ।
दीहामयविप्पमुक्को पसत्थो, तो होइ अचंतसुही कयत्थो ॥११॥ व्याख्या-'सः' इति मोक्षं प्राप्तः 'तस्मात्' जातिजरामरणादिरूपत्वेन प्रतिपादितात् सर्वस्माद् दुःखात् सर्वत्र सुब्व्यत्ययेन षष्ठी, 'मुक्तः' पृथग्भूतः, यत् कीदृग् ? इत्याह-'यद्' दुखं बाधते सततं जन्तुम् 'एनं' प्रत्यक्षम् , दीर्घाणि-स्थितितः प्रक्रमात् कर्माणि तानि आमया इव-रोगा इव विविधबाधाविधायितया दीर्घामयास्तेभ्यो विप्रमुक्तो * दीर्घामयविप्रमुक्तः अत एव 'प्रशस्तः' प्रशंसाहः, ततः किम् ? इत्याह-"तो" इति 'ततः' दीर्घामयविप्रमोक्षाद् भवति । अत्यन्तसुखी, तत एव च कृतार्थ इति सूत्रार्थः॥ ११० ॥ सकलाऽध्ययनार्थ निगमयितुमाह
अणाइकालप्पभवस्स एसो, सबस्स दुक्खस्स पमुक्खमग्गो।
वियाहिओ जं समुविच सत्ता, कमेण अचंतसुही भवंति ॥ १११ ॥ त्ति बेमि ॥ व्याख्या-अनादिकालप्रभवस्य 'एषः' अनन्तरोक्तः सर्वस्य दुःखस्य 'प्रमोक्षमार्गः' प्रमोक्षोपायो व्याख्यातः, यं 'समुपेत्य' सम्यक् प्रतिपद्य सत्त्वाः 'क्रमेण' उत्तरोत्तरगुणप्रतिपत्तिरूपेणाऽत्यन्तसुखिनो भवन्तीति सूत्रार्थः ॥ १११ ।। 'इतिः' परिसमाप्तौ, ब्रवीमीति पूर्ववत् ॥
इति श्रीनेमिचन्द्रसूरिविरचितायां उत्तराध्ययनसूत्रलघुटीकायां सुखबोधायां प्रमादस्थानाख्यं द्वात्रिंशमध्ययनं समाप्तम् ॥