________________
प्रमादस्य स्थानानि ।
क्रियते, कीदृशस्य पुनरस्य किमर्थं चैवंविधप्रयोजनानि जायन्ते ? इत्याह-सुखैषिणो दुःखविनोदनार्थम् , कदाचिदेवंविधप्रयोजनोत्पत्तावपि तत्रायमुदासीन एव स्याद् ? अत उच्यते-'तत्प्रत्ययम्' उक्तरूपप्रयोजननिमित्तं 'उद्यच्छति च' उद्यच्छत्येव, कोऽर्थः ? तत्प्रवृत्तावुत्सहत एव रागी, उपलक्षणत्वाद् द्वेषी च सन्, रागद्वेषयोरेव सकलाऽनर्थपरम्पराकारणत्वादिति सूत्रार्थः ॥ १०५॥ किमिति रागद्वेषवशत एव सकलाऽनर्थपरम्परोच्यते ? इत्याशङ्कयाह
विरजमाणस्स य इंदियत्था, सद्दाइया तावइयप्पगारा।
न तस्स सवे वि मणुन्नयं वा, निवत्तयंती अमणुन्नयं वा ॥१०६॥ व्याख्या-विरज्यमानस्य उपलक्षणत्वाद् अद्विषतश्च, 'चः' पुनरर्थे, ततो विरज्यमानस्याऽद्विषतश्च पुनः 'इन्द्रियार्थाः' शब्दादिकाः तावन्त इति-यावन्तो लोके प्रतीताः प्रकाराः-खरमधुरादिभेदा येषां ते तावत्प्रकारा बहुभेदा इत्यर्थः, न तस्येति मनुजस्य सर्वेऽपि मनोज्ञतां वा 'निर्वर्त्तयन्ति' जनयन्ति अमनोज्ञतां वा, किन्तु रागद्वेषवशत एव, स्वरूपेण हि रूपादयो न मनोज्ञताममनोज्ञतां वा कर्तुमात्मनः क्षमाः किन्तु रक्तेतरप्रतिपत्रध्यवसायवशात् । उच्यते चान्यैरपिपरिवाद-कामुक-शुनामेकस्यां प्रमदातनौ । कुणपं कामिनी भक्ष्यमिति तिस्रो विकल्पनाः॥१॥ ततो न वीतरागस्य मनोज्ञताममनोज्ञतां वा निर्वतयेयुः, तदभावे च कथं विषयसेवनाऽऽक्रोशदानादिप्रयोजनोत्पत्तिः ? इति सूत्रार्थः ॥ १०६॥ तदेवं रागद्वेषयोरतिदुष्टत्वात् साक्षान्मोहस्य च तदाऽऽयतनत्वात् तद्द्वारेणोद्धरणोपायान् निरूप्योपसंहरन्नाह
एवं ससंकप्पविकप्पणासुं, संजायई समयमुवट्टियस्स।
अत्थे च संकप्पयओ तओ से, पहीयए कामगुणेसु तण्हा ॥ १०७॥ व्याख्या-'एवम्' उक्तप्रकारेण स्वस्य-आत्मनः सङ्कल्पा:-रागद्वेषमोहरूपा अध्यवसायास्तेषां विकल्पना:-सकल