________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृत्तिः ।
॥३६३॥
तत्तदोषदुष्टत्वात् सर्वस्याऽप्रीतिभाजनमिति सूत्रद्वयार्थः॥ १०२-१०३ ॥ पुनरप्यतिदुरन्ततया रागस्य प्रकारान्तरेणो
द्वात्रिं द्धरणोपायाऽभिधानार्थं तद्विपर्यये दोषदर्शनार्थ चेदमाह
प्रमादस्थाकप्पं न इच्छिज्ज सहायलिच्छ, पच्छाणुतावेण तवप्पभावं ।
नाख्यमएवं विकारे अमियप्पयारे, आवजई इंदियचोरवस्से ॥१०४॥
ध्ययनम्। व्याख्या-कल्पते-स्वाध्यायादिक्रियासु समर्थो भवतीति कल्पः-योग्यस्तम्, अपेर्गम्यमानत्वात् कल्पमपि,
प्रमादस्य किं पुनरकल्पं ? शिष्यादिकमिति गम्यते, न इच्छेत् 'सहायलिप्सुः' ममाऽयं विश्रामणादिसाहाय्यं करिष्यतीत्यभिलाषुकः
स्थानानि । सन् , तथा पश्चादिति-प्रस्तावाद् व्रतस्याऽङ्गीकाराद् उत्तरकालमनुतापः-किमेतावन्मया कष्टमङ्गीकृतमिति चित्तसन्तापात्मकः पश्चादनुतापस्तेन हेतुना उपलक्षणत्वादन्यथा वा 'तपःप्रभावं' तपःफलम् इहैवामौषध्यादिलब्धिप्रार्थनेन भवान्तरभोगादिनिदानकरणेन वा नेच्छेदिति प्रक्रमः । किमेवं निषिध्यते ? इत्याह-'एवम्' अमुना प्रकारेण 'विकारान्' दोषान अमितप्रकारानापद्यते इन्द्रियचोरवश्यः, एवं च ब्रुवतोऽयमाशय:-तदनुग्रहबुद्ध्या कल्पं पुष्टालम्बनेन तपःप्रभावं वाञ्छतोऽपि न दोषः । एतेन च रागस्य हेतुद्वयपरिहरणमुद्धरणोपाय उक्तः । उपलक्षणं चैतदीदृशाम्, अन्येषामपि रागहेतूनां परिहारस्य, ततः सिद्धमस्योद्धरणोपायानां तद्विपर्यये च दोषाणामभिधानमिति सूत्रार्थः ॥१०४॥ किं चतओ से जायंति पओअणाई, निमन्जिङ मोहमहन्नवम्मि ।
॥३६३॥ सुहेसिणो दुक्खविणोयणट्ठा, तप्पच्चयं उजमए अरागी॥१०५॥ व्याख्या-ततः' इति विकारापत्तेरनन्तरं "से" तस्य जायन्ते 'प्रयोजनानि' विषयसेवनहिंसादीनि "निमजिउं" ति|X निमज्जयितुमिव निमज्जयितुं प्रक्रमात् तमेव जन्तुं मोहमहार्णवे, किमुक्तं भवति ?-यैर्मोहमहार्णवे निमग्न इव जन्तुः