________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
द्वात्रिंश प्रमादस्थानाख्यमध्ययनम् ।
प्रमादस्य स्थानानि ।
॥३६०॥
एमेव भावम्मि गओ पओसं, उवेइ दुक्खोहपरंपराओ। पउद्दचित्तो य चिणाइ कम्म, जं से पुणो होइ दुहं विवागो॥९८॥ भावे विरत्तो मणुओ विसोगो, एएण दुक्खोहपरंपरेण ।
न लिप्पई भवमज्झे वि संतो, जलेण वा पुक्खरिणीपलासं ॥ ९९ ॥ व्याख्या-"चक्खुस्स" इत्यादिसूत्राणि अष्टसप्ततिः । तत्रापि चक्षुराश्रित्य त्रयोदश-चक्षुषो रूपं, गृह्यतेऽनेनेति ग्रहणं, कोऽर्थः ? आक्षेपकं वदन्ति । ततः किम् ? इत्याह-'तद्' रूपं रागहेतुः, 'तुः' पूरणे, मनोज्ञमाहुः, तथा 'तद्' रूपमेव द्वेषहेतुम् अमनोज्ञमाहुः, ततस्तयोश्चक्षुःप्रवर्त्तने रागद्वेषसम्भवात् तदुद्धरणाशक्तिलक्षणो दोष इति भावः । आह-एवं न कश्चित् सति रूपे वीतरागः स्याद् अत आह–समस्तु' अरक्तद्विष्टतया तुल्यः पुनर्यः 'तयोः' मनोज्ञेतररूपयोः स वीतराग इव वीतरागः, उपलक्षणत्वाद् वीतद्वेषश्च, इदमुक्तं भवति-न तावत् चक्षुः तयोः प्रवर्तयेत् , कथञ्चित् प्रवर्त्तने च समतामेवावलम्बेतेति ॥ ननु यद्येवं रूपमेव रागद्वेषजनकं ततस्तदुद्धरणार्थिनस्तद्गतैव चिन्ताऽस्तु, रूपे चक्षुर्न प्रवर्त्तयेद् इत्येवं तु न चक्षुषश्चिन्ता कर्तुं युक्तेत्याशङ्कयाह-रूपस्य चक्षुः गृहातीति ग्रहणं वदन्ति, तथा चक्षुषो रूपं गृह्यत इति ग्रहणं वदन्ति, अनेन च रूपचक्षुषोपायग्राहकभावदर्शनतः परस्परमुपकार्योपकारकभाव | उक्तः, ततो यथा रूपं रागद्वेषकारणं तथा चक्षुरपि इत्युक्तं भवति । अत आह-रागस्य हेतुं प्रक्रमात् चक्षुः सह मनोशेन ग्राह्येण रूपेण वर्त्तते समनोज्ञमाहुः, द्वेषस्य हेतुम् 'अमनोज्ञम्' अविद्यमानमनोज्ञरूपमाहुः ॥ इत्थं रागद्वेषोद्धरणोपायमभिधाय एतदनुद्धरणे दोषमाह-रूपेषु यः 'गृद्धिं' रागरूपां उपैति तीब्राम् , अकाले भवम् आकालिकं प्राप्नोति
१ यदुक्तम्-इच्छा मूर्छा कामः, स्नेहो गाय ममत्वमभिनन्दः । अभिलाष इत्यनेकानि रागपर्यायवचनानि ॥१॥
PXOXOXOXEXXEXOXOXOXOXOXOX
॥३६०॥