________________
स विनाशं रागातुरः सन् 'सः' इति लोकप्रतीतः, 'यथा वा' इति वाशब्दस्यैवकारार्थत्वाद् यथैव पतङ्गः 'आलो-oll
प्रमादस्य कलोल' स्निग्धदीपशिखादर्शनलम्पटः समुपैति मृत्युम् ॥ 'यश्च' इति यस्तु, अपिः तस्मिन् इत्यनेन योक्ष्यते, द्वेष
स्थानानि । * समुपैति रूपेष्विति प्रक्रमः तीव्रम् , स किम् ? इत्याह-तस्मिन्नपि क्षणे सः 'तुः' पूरणे उपैति 'दुःखं' चित्तसन्तापा| दिकम् । इत्थं तर्हि रूपस्यैव दुःखहेतुत्वं तद्दर्शन एव द्वेषसम्भवाद् इत्याशङ्कयाह-दुष्टं दमनं दुर्दान्तं तच्च प्रक्रमात् चक्षुषः तदेव दोषो दुर्दान्तदोषस्तेन 'खकेन' आत्मीयेन 'जन्तुः' देही न 'किश्चिद्' अल्पमपि रूपमपराध्यति "से" तस्य ।। इत्थं रागद्वेषयोरनर्थहेतुत्वमुक्तम् । इदानीं तु द्वेषस्यापि रागहेतुकत्वात् स एव महाऽनर्थमूलमिति दर्शयंस्तस्य विशेषतः परिहर्त्तव्यतां ख्यापयितुमाह-एकान्तरक्तः 'रुचिरे' मनोरमे रूपे 'अतादृशे' अनीदृशे स करोति प्रद्वेषम् , तथा च दुःखस्य 'सम्पीडं' सङ्घातं समुपैति 'बालः' अज्ञः, न लिप्यते तेन मुनिर्विरागः ॥ सम्प्रति रागस्यैव हिंसाद्याश्रवनिमित्ततामिहैव च तद्वारेण दुःखजनकत्वं सूत्रषट्रेनाह-रूपं-प्रस्तावाद् मनोज्ञमनुगच्छति रूपाऽनुगा सा चाऽसौ आशा च रूपानुगाशा-रूपविषयोऽभिलाष इत्यर्थः तदनुगतश्च, पठन्ति च-"रूवाणुवायाणुगए य" त्ति रूपाणाम् उपायैः-उपार्जनहेतुभिरनुगत उपायाऽनुगतः स च जीवान् 'चराचरान्' त्रसस्थावरान हिनस्ति अनेकरूपान् , कांश्चित् | तु 'चित्रैः' अनेकप्रकारैरुपायैरिति गम्यते तान् 'परितापयति' दुःखयति बालः, अपरांश्च पीडयति एकदेशदुःखोत्पादनेन |'आत्मार्थ गुरुः' स्वप्रयोजननिष्ठः 'क्लिष्टः' रागबाधितः ॥ अन्यच्च-रूपेऽनुपात:-गमनम् अनुराग इत्यर्थः रूपाऽनुपातस्तस्मिन् सतिणे'ति पूरणे, 'परिग्रहेण मूर्छात्मकेन हेतुना 'उत्पादने' उपार्जने रक्षणं च-अपायेभ्यः सन्नियोगश्च
स्वपरप्रयोजनेषु सम्यग्व्यापारणं रक्षण-सन्नियोगं तस्मिन् “वये" त्ति 'व्यये' विनाशे 'वियोगे' विरहे सर्वत्र रूपस्येति उ० अ० ६१|| गम्यते, क सुखं ? न क्वचित् "से" तस्य, इदमुक्तं भवति–सुरूपकलत्रकरितुरगादीनामुत्पादनादिषु दुःखमेवाऽनुभवति
BKOXOXOXOXOXOXOXOXOXOXOXOK