________________
अभ्यन्तरतपसः खरूपम् ।
X8XOXOXOXXXXXXXXX
पालन विणओ, वेयावचं तहेव सज्झाओ। झाणं च विउस्सग्गो, एसो अभितरोतवो ॥३०॥
व्याख्या-अक्षरार्थः सुगमः ॥ ३० ॥ भावार्थ तु स्वत एवाऽऽह सूत्रकृत्आलोयणारिहाईयं, पायच्छित्तं तु दसविहं । जे भिक्खू वहई सम्म, पायच्छित्तं तमाहियं ॥३१॥ अभद्राणं अंजलिकरणं,तहेवाऽऽसणदायणं । गुरुभत्ति भावसुस्सूसा, विणओ एस वियाहिओ ३२ आयरियमाईए, वेयावच्चम्मि दसविहे । आसेवणं जहाथाम, वेयावच्चं तमाहियं ॥३३॥ वायणा पुच्छणा चेव, तहेव परियणा । अणुप्पेहा धम्मकहा, सज्झाओ पंचहा भवे ॥ ३४ ॥ अहरुद्दाणि वजेत्ता, झाइज्जा सुसमाहिए। धम्मसुक्काई झाणाई, झाणं तं तु बुहा वदे ॥ ३५॥ सयणासण ठाणे वा, जे उ भिक्खू ण वावरे। कायस्स विउस्सग्गो, छट्ठोसो परिकित्तिओ॥३६॥
व्याख्या-आलोचनां अर्हति आलोचनाह-यत् पापमालोचनात एव शुद्ध्यति, आदिशब्दात् प्रतिक्रमणार्हादिग्रहः । इह पुनर्विषयविषयिणोरभेदोपचारादेवंविधपापविशुद्ध्युपायभूतानि आलोचनादीन्येव आलोचना हादिशब्देनोत्तानि, प्रायश्चित्तं 'तुः' अवधारणे भिन्नक्रमश्च, ततो दशविधमेव, दशविधत्वं चेत्थम् - आलोयण पडिकम णे, मीस विवेगे तहा विउस्सग्गे । तव छेय मूल अणवट्ठया य पारंचिए चेव ॥१॥" 'जे' इति आर्षत्वाद् यद् भिक्षुः 'वहति' आसेवते 'सम्यग्' अवैपरीत्येन प्रायश्चित्तं तद् आख्यातम् ॥ विनयमाह-अभ्युत्थानम् अञ्जलिकरणं, 'तथे ति समुच्चये, 'एवेति पूरणे, "आसणदायणं" ति सूत्रत्वाद् आसनदानं, गुरुभक्तिः, भावेन-अन्तःकरणेन शुश्रूषा-तदादेशं प्रति श्रोतुमिच्छा पर्युपासना वा भावशुश्रूषा विनय एष व्याख्यातः ॥ वैयावृत्यमाह-'आचार्यादिके' आचार्यादिविष ये, मकारस्त्वलाक्षणिकः,
"मालोचना प्रतिक्रमणं मिनं विवेकस्तथा व्युत्सर्गः । तपश्छेदो मूलमनवस्थाप्यं च पाराश्चिकमेव ॥१॥"
BXOXOXOXOXOXOXOXOXOXOXOXOX