SearchBrowseAboutContactDonate
Page Preview
Page 697
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनेमिच न्द्रीया सुखबोधाख्या लघुवृत्तिः । ॥ ३४२ ॥ XCXCXOXXX वैयावृत्यमुचिताऽऽहारादिसम्पादनरूपम्, उक्तञ्च - " वैयावचं वावडभावो तह धम्मसाहणनिमित्तं । अन्नाइयाण विहिणा, संपायणमेस भावत्थ ॥ १ ॥” तस्मिन् दशविधे, उक्तं हि - * “आयरिय उवज्झाए, थेरै तर्वैस्सी - गिलाण - सेहाणं । साह- * म्मिय-कुल- गंण-संघसंगयं तमिह कायां ॥ १ ॥" ' आसेवनम् ' एतद्विषयमनुष्ठानं 'यथास्थाम' स्वसामर्थ्याऽनतिक्रमेण वैयावृत्यं तद् आख्यातम् ॥ स्वाध्यायमाह - "वायणे "त्यादि सुगमम् ॥ ध्यानमाह – “अट्टे" त्यादि प्रकटम् । नवरम् — 'ध्यानं' ध्यानाख्यं तपः, “तं तु” तदेव बुधा वदन्ति ॥ व्युत्सर्गमाह - शयने आसने, उभयत्र सुपो लुक, 'स्थाने' ऊर्ध्वस्थाने 'वा' विकल्पे, यस्तु भिक्षुः 'न व्याप्रियते' न चलनादिक्रियां कुरुते यत्तदोर्नित्याभिसम्बन्धात् तस्य मिक्षोः कायस्य 'व्युत्सर्ग' चेष्टां प्रति परित्यागो यः षष्ठं 'तत्' तपः परिकीर्त्तितम् । शेषव्युत्सर्गोपलक्षणं चैतद्, अनेकविधत्वादस्य । उक्तं च - " दैवे भावे य तहा, दुह वुस्सगो चउबिहो दधे । गणदेहोवहिभत्ते, भावे कोहा इचाउ ति ॥ १ ॥” इति सूत्रषट्कार्थः ॥ ३१-३२-३३-३४-३५-३६ ॥ अध्ययनार्थमुपसंहरंस्तपस एव फलमाह - एयं तवं तु दुविहं, जं सम्मं आयरे मुणी । से खिप्पं सङ्घसंसारा, विप्पमुच्चइ पंडिए ॥ ३७॥ त्ति बेमि ॥ व्याख्या - स्पष्टम् ॥ ३७ ॥ इति श्रीनेमिचन्द्रसूरिविरचितायां उत्तराध्ययनसूत्रलघुटीकायां सुखबोधायां तपोमार्गगत्याख्यं त्रिंशत्तममध्ययनं समाप्तम् ॥ १ "वैयावृत्यं व्यापृतभावस्तथा धर्मसाधननिमित्तम् । अनादिकानां विधिना, सम्पादनमेष भावार्थः ॥ १ ॥ " २ "आचार्योपाध्याये, स्थविरतपस्विग्लानशैक्षाणाम् । साधर्मिककुलगणसङ्घसङ्गतं तदिह कर्त्तव्यम् ॥ १॥" ३ " द्रव्ये भावे च तथा द्विधा व्युत्सर्गः चतुर्विधो द्रव्ये । गणदेहोपधिभक्के, भावे क्रोधादित्याग इति ॥ १ ॥” त्रिंशं तपोमार्गग त्याख्यम ध्ययनम् । अभ्यन्तर तपसः स्वरूपं तत्फलं च । ॥ ३४२ ॥
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy