SearchBrowseAboutContactDonate
Page Preview
Page 694
Loading...
Download File
Download File
Page Text
________________ बाह्यतपसः खरूपम् । न्मुञ्चन्नेव' यदि दाता दास्यति ततोऽहं ग्रहीष्ये नाऽन्यथेत्युपस्कारः, एवं "घरमाणो" त्ति प्राग्वत् चरतः 'खलु' निश्चितं "भावोमाणं" ति भावाऽवमत्वं मुणितव्यम् ॥ पर्यवावमौदर्यमाह-द्रव्ये क्षेत्रे काले भावे च आख्याताः 'तुः पूरणे, ये 'भावाः' पर्याया एकसिक्थोनत्वादयः, 'एतैः सर्वैरपि “ओम” ति अवममुपलक्षणत्वाद् अवमौदर्य चरति | अवमचरकः पर्यवचरको भवेद्भिक्षुः । इह च पर्यवग्रहणेन पर्यवप्राधान्यविवक्षया पर्यवावमौदर्यमुक्तम् । यत्रापि च द्रव्यतो न्यूनत्वमुदरस्य नास्ति सत्राऽपि क्षेत्रादिन्यूनतामपेक्ष्याऽवमौदर्याणि भण्यन्त इति सूत्रैकादशकार्थः ॥ १४-१५१६-१७-१८-१९-२०-२१-२२-२३-२४ ॥ भिक्षाचर्यामाहअढविहगोयरग्गं तु, तहा सत्तेव एसणा। अभिग्गहा य जे अने, भिक्खायरियमाहिया ॥२५॥ व्याख्या-अढविहगोयरग्गं" ति प्राकृतत्वाद् अष्टविधोऽप्रः-प्रधानोऽकल्पनीयपरिहारेण स चाऽसौ गोचरश्च अष्टविधाप्रगोचरः, 'तुः' पूरणे, तथा सप्तैवैषणा अभिग्रहाश्च ये 'अन्ये' तदतिरिक्ताः, ते किम् ? इत्याह-'भिक्खायरियमा| हिय" त्ति सूत्रत्वेन मिक्षाचर्या वृत्तिसङ्केपापरनामिका आख्याता । अत्र चाऽष्टावअगोचरभेदाः पेडादयः, सप्तषणाश्वेमाः-*"संसहमसंसट्ठा, उद्धड तह अप्पलेवडा चेव । उँग्गहिया पंग्गहिया उज्झियधम्मा य सत्तमिया ॥ १॥" 'अभिग्रहाश्च द्रव्यक्षेत्रकाळभावविषयाः। तत्र द्रव्याभिग्रहा:-कुन्ताप्रादिसंस्थितमण्डकखण्डादि प्रहीष्ये इत्यादयः । क्षेत्राभिग्रहाः-देहली जबयोरन्तर्विधाय यदि दास्यति ततो ग्राह्यमित्यादयः । कालाभिग्रहाः-सकलभिक्षाचर| निवर्त्तनावसरे मया पर्यटितव्यमित्यादयः । भावाभिग्रहास्तु-हसन् क्रन्दन् बद्धो वा यदि प्रतिलाभयिष्यति ततोऽहमाऽऽदास्ये न त्वन्यथेत्येवमादय इति सूत्रभावार्थः ॥ २५ ॥ अभिहिता भिक्षाचर्या । रसपरित्यागमाह * "संसष्टाऽसंबटे, उता तथाऽल्पलेपा चैव । उद्गृहीता प्रगृहीता, उज्झितधर्मा च सप्तमी ॥ १॥"
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy