________________
बाह्यतपसः स्वरूपम् ।
| उक्त च-*"अप्पाहार अवड्डा दुभाग पैत्ता तहेव किंणा । अट्ठ दुवालस सोलस, चउँवीस तहेक्कतीसा य ॥१॥"
क्षेत्रावमौदर्यमाह-प्रामे नगरे, तथा राजधानी च निगमश्च-प्रभूततरवणिजां निवासो राजधानीनिगमं तस्मिन् , आकरे |पल्या 'खेटे' पांशुप्राकारप्रतिक्षिप्ते, कर्बट-कर्बटजनावासः, द्रोणमुखं-जलस्थलनिर्गम-प्रवेशं यथा ताम्रलिप्तिः, पत्तनंजलपत्तनं स्थलपत्तनं च, तत्राद्यं जलमध्यवर्ति, इतरनिर्जलभूभागभावि, मडम्बम्-अविद्य मानार्द्धतृतीययोजनान्तर्घाम, सम्बाधं-प्रभूतचातुर्वर्ण्यनिवासः, कर्बटादीनां समाहारद्वन्द्वस्तस्मिन् ॥ 'आश्रमपदे' तापसावसथाद्युपलक्षितस्थाने, विहारःदेवगृहं भिक्षुनिवासो वा तत्प्रधानो प्रामादिरपि विहारस्तस्मिन् , 'सन्निवेशे' यात्रादिसमायातजनावासे, समाजः-पथिकसमूहः घोषः-गोकुलम् अनयोः समाहारस्तस्मिन् , 'चः' समुच्चये, स्थल्याम्-उच्चभूभागे सेना-चतुरङ्गबलसमूहः स्कन्धावारः स एवाऽशेषखेडाद्युपलक्षितः अनयोः समाहारस्तस्मिन्, 'सार्थे' प्रतीते, संवतः-भय त्रस्तजनस्थपणिः कोठेंप्राकारोऽनयोः समाहारस्तस्मिन् , 'चः' समुच्चये, क्षेत्रप्रस्तावाचेह समाजादिषु क्षेत्रमेवोपलक्ष्यते ॥ 'वाटेषु पाटेषु वा' वृत्यादिपरिक्षिप्तगृहसमूहात्मकेषु, 'रथ्यासु' सेरिकासु, गृहेषु वा, 'एवमिति अनेन हृदयस्थप्रकारेण "एत्तियं" ति एतावद् विवक्षातो नियतपरिमाण क्षेत्रं कल्पते पर्यटितुमिति शेषः, 'तुः' पूरणे, एवमादि, आदिशब्दाद् गृहशालादिपरिग्रहः, 'एवम्' अमुना प्रकारेण 'क्षेत्रेणे ति क्षेत्रहेतुकं 'तुः' पूरणे भवेद् अवमौदर्यमिति प्रक्रमः ॥ पुनरन्यथा क्षेत्रावमौदर्यमाह-"पेडे"त्यादि, अत्र च सम्प्रदायः-पेडा पेडिका इव चउकोणा, अद्धपेडा इमीए चेव अद्धसंठिया घरपरिवाडी, गोमुत्तिया वंकावलिया, पयंगविही अणियया पयंगुड्डाणसरिसा, “संबुक्कावट्ट" त्ति शम्बूक:- शङ्खस्तद्वदावर्तो यस्यां सा
"अल्पाहाराऽपार्धा द्विभागा प्राप्ता तथैव किञ्चिदूना । अष्ट द्वादश षोडश चतुर्विशतिस्तथैकत्रिंशच ॥१॥","पेटा" पेटिका इक चतुष्कोणा, 'अर्धपेटा' अस्याश्चैव अर्धसंस्थिता गृहपरिपाटी, 'गोमूत्रिका' बक्रावलिका, 'पतझवीथिका' अनियता पतनोडयनसत्या ।