SearchBrowseAboutContactDonate
Page Preview
Page 688
Loading...
Download File
Download File
Page Text
________________ बाह्यतपसः स्वरूपम् । | मेण क्रियमाणं षण्मासान्तं परिगृह्यते । तथा श्रेणिरेव श्रेण्या गुणिता प्रतरतप उच्यते, इह चाऽव्यामोहार्थ चतुर्थषष्ठाष्टमदशमाख्यपदचतुष्टयात्मिका श्रेणिर्विवक्ष्यते, सा च चतुर्भिर्गुणिता षोडशपदात्मकः प्रतरो भवति । अयं चाऽऽयामतो विस्तरतश्च तुल्य इत्यस्य स्थापनोपाय उच्यते-"एकाद्याद्या व्यवस्थाप्याः, पङ्क्तयो हि यथाक्रमम् । द्वितीयाद्याः क्रमाञ्चैताः, पूरयेदेककादिभिः॥ १॥" स्थापना चेयम्- |२|३|| 'घनः' इति घनतपः, 'चः' पूरणे, 'तथेति समुच्चये, भवतीति च क्रिया प्रतितपोभेदं योजनीया । २३ अत्र षोडशपदात्मकः प्रतरः पदचतुष्टयात्मिकया श्रेण्या | गुणितो घनो भवति, आगतं चतुःषष्टिः ६४, ३ २ स्थापना पूर्विकैव, नवरं बाहल्यतोऽपि पदचतुष्टयात्मकत्वं विशेषः, एतदुपलक्षितं तपो घनतप उच्यते । TRI] 'चः समुच्चये। 'तथा भवति वर्गश्च' इति इहापि प्रक्रमाद्वर्ग | इति वर्गतपः, तत्र च घन एव घनेन गुणितो वो भवति, ततश्चतुःषष्टिः चतुःषष्ट्यैव गुणिता जातानि षण्णवत्य|धिकानि चत्वारि सहस्राणि, एतदुपलक्षितं तपो वर्गतपः॥ 'ततश्च' वर्गतपसोऽनन्तरं 'वर्गवर्गः' इति वर्गवर्गतपः 'तुः' समुच्चये पश्चमम् , अत्र वर्ग एव यदा वर्गेण गुण्यते तदा वर्गवर्गो भवति, यथा 'चत्वारि सहस्राणि षण्णवत्यधिकानि तावतैव गुणितानि जातैका कोटिः सप्तषष्टिर्लक्षाः सप्तसप्ततिसहस्राणि द्वे शते षोडशाधिके, अङ्कतोऽपि १६७७७२१६, एतदुपलक्षितं तपो वर्गवर्गतप इत्युच्यते । एवं पदचतुष्टयमाश्रित्य श्रेण्यादितपो दार्शतम् । एतदनुसारेण पञ्चादिपदेष्वपि एतत्परिभावना कार्या । षष्ठकं 'प्रकीर्णतपः' यत् श्रेण्यादिनियतरच नाविरहितं स्वशक्त्यपेक्षं यथाकथञ्चिद् विधीयते, तच्च नमस्कारसहितादि पूर्वपुरुषाचरितं यवमध्य-वज्रमध्य-चन्द्रप्रतिमादि । इत्थं भेदानभिधायोपसंहारमाह-"मणइच्छियचित्तत्थो" त्ति मनस ईप्सितः-इष्टः चित्रः-अनेकप्रकारः अर्थः-स्वर्गापवर्गादिः तेजोलेश्यादि यस्मात् तद् मनईप्सितचित्रार्थ ज्ञातव्यं भवति 'इत्वरक' प्रक्रमाद् अनशनाख्यं तपः ॥ सम्प्रति मरणकालमनशनं
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy