SearchBrowseAboutContactDonate
Page Preview
Page 684
Loading...
Download File
Download File
Page Text
________________ XXX यित्वा अन्तर्मुहूर्त्ताऽवशेषायुष्को योगनिरोधं “करेमाणे " ति करिष्यमाणः सूक्ष्मक्रियम् अप्रतिपाति 'शुक्रुध्यानं' तृतीयभेदरूपं व्यायन् तत्प्रथमतया मनोयोगं निरुणद्धि, वाग्योगं निरुणद्धि, काययोगं निरुणद्धि, आनापानौ - उच्छास - निःस्वासौ तन्निरोधं करोति, सकलकाय योगनिरोधोपलक्षणमेतत्, तत ईषदिति - स्वल्पप्रयत्नापेक्षया पश्चानां हस्वाक्षराणां 'अ इ उ ऋ ऌ' इत्येवंरूपाणामुञ्चारः - भणनं तस्याऽद्धा- कालः ईषत्पञ्चाक्षरोच्चारणाद्धा तस्यां च 'णं' प्राग्वत्, अनगारः समुच्छिन्नक्रियम् अनिवर्त्ति 'शुक्रुध्यानं' चतुर्थभेदरूपं ध्यायन् वेदनीयमायुर्नाम गोत्रं चैतानि चत्वार्यपि, ‘“कम्मंस" त्ति सत्कर्माणि युगपत् क्षपयति ॥ ७२ ॥ ' ततः ' वेदनीयादिक्षयानन्तरं “ ओरालियकम्माई च" त्ति 'औदारिक- कार्मणे' शरीरे, चशब्दात् तैजसं च सर्वाभिः विशेषेण - प्रकर्षतो हानयः - त्यागा विप्रहाणयः व्यक्त्यपेक्षं बहुवचनं ताभिः किमुक्तं भवति ? — सर्वथा शादनेन 'विप्रहाय' परिशाट्य ऋजुः - अवका श्रेणिः - आकाशप्रदेशपङ्क्तिस्तां प्राप्त ऋजुश्रेणिप्राप्तः, अस्पृशद्गतिरिति, कोऽर्थः ? स्वावगाहातिरिक्तनभः प्रदेशान् अस्पृशन् एकसमयेन 'अविग्रहेण' अवक्रेण अन्वयव्यतिरेकाभ्यामुक्तोऽर्थः स्पष्टतरो भवतीति ऋजुश्रेणिप्राप्त इत्यनेन गतार्थत्वेऽपि पुनरभिधानम्, 'तत्रे' ति विवक्षिते मुक्तिपद इत्यर्थ: गत्वा साकारोपयुक्तः सिध्यतीति प्राग्वत् ॥ ७३ ॥ उपसंहर्तुमाह एसो खलु सम्मत्तपरक्कमस्स अज्झयणस्स अट्ठे समणेणं भगवया महावीरेणं आघविए पन्नविए परूविए दंसिए निदंसिए उवदंसिए त्ति बेमि ॥ ७४ ॥ व्याख्या – 'एषः' अनन्तरोक्तः 'खलु' निश्चये सम्यक्त्वपराक्रमस्याध्ययनस्यार्थः श्रमणेन भगवता महावीरेण "आघविए" त्ति आर्षत्वाद्' 'आख्यातः' सामान्यविशेषपर्यायाभिव्याप्तिकथनेन, - 'प्रज्ञापितः ' हेतुफलादिप्रज्ञापनेन, त्रिसप्ति पदानां फलनिरूपणम् ।
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy