SearchBrowseAboutContactDonate
Page Preview
Page 683
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तरा- ध्ययनसूत्रे श्रीनेमिच-1 न्द्रीया सुखबोधाख्या लघुवृति:। एकोनत्रिंशं सम्यक्त्वपराक्रमाख्यमध्ययनम् । त्रिसप्तिपदानां फलनिरूपणम्। ॥३३५॥ च्छति, प्रेमादिनिमित्तत्वात् तद्विराधनायाः, ततश्चाष्टविधस्य कर्मणो मध्य इति गम्यते, कर्मग्रन्थि:-अतिदुर्भेदघातिकर्मरूपस्तस्य विमोचना-क्षपणा कर्मग्रन्थिविमोचना तस्यै, चस्य गम्यमानत्वात् तदर्थं चाभ्युत्तिष्ठति, अभ्युत्थाय च किं करोति ? इत्याह –'तत्प्रथमतया' तत्पूर्वतया न हि तत् पुरा क्षपितमासीदिति आनुपूा अनतिक्रमेण यथानुपूर्वि | अष्टाविंशतिविधं मोहनीयं कर्म 'उद्घातयति' क्षपयति, ततश्च पञ्चविधं ज्ञानावरणीयं नवविधं दर्शनावरणीयं पञ्चविधं अन्तरायम् “एए" त्ति एतानि त्रीण्यपि "कम्मसे" त्ति सत्कर्माणि युगपत् क्षपयति, 'ततः' इति क्षपणातः पश्चात् | 'अनुत्तरं' नाऽस्मादुत्तरं प्रधानं ज्ञानमस्तीत्यनुत्तरम् , 'अनन्तम्' अविनाशितया कृत्स्नवस्तुविषयत्वात् , 'परिपूर्ण' सकलस्वपरपर्यायपरिपूर्णवस्तुप्रकाशकत्वात् , 'निरावरणम्' अशेषावरणविगमात् , 'वितिमिरं' तस्मिन् सति कचिदप्यज्ञानतिमिराभावात् , 'विशुद्धं सकलदोषाभावात् , 'लोकाऽलोकप्रभासकं' तत्स्वरूपप्रकाशकत्वात् केवलवरज्ञानदर्शनं समुत्पादयति, स च यावत् सयोगी भवति तावच्च किम् ? इत्याह-ई-गतिस्तस्याः पन्था यदाश्रिता सा भवतित स्मिन् भवमैर्यापथि-| कम् , उपलक्षणं च पथिग्रहणम् , तिष्ठतोऽपि सयोगस्य ईर्यासम्भवात् । सम्भवन्ति हि सयोगितायां केवलिनोऽपि हि सूक्ष्मा गात्रसञ्चाराः, तदेवं पथिस्थस्तिष्ठन् ईर्यापथिकं कर्म बध्नाति, सुखयतीति सुखः स्पर्श:-आत्मप्रदेशैः सह |संश्लेषो यस्य तत् सुखस्पर्श द्विसमयस्थितिकं, तत् प्रथमसमये बद्धं द्वितीयसमये वेदितं तृतीयसमये 'निर्जीर्ण' परिशटितं, अतश्च तद् 'बद्धं' जीवप्रदेशैः श्लिष्टं 'स्पृष्टं' मसृणमणिकुड्यापतितशुष्कस्थूलचूर्णवत्, अनेन विशेषणद्वयेन तस्य निधत्तनिकाचितावस्थयोरभावमाह, 'उदीरितम्' उदयप्राप्तम् उदीरणायास्तत्रासम्भवात् , 'वेदितं' तत्फलसुखाऽनुभवनेन, 'निर्जीर्ण। क्षयमुपगतं, "सेयाले" त्ति सूत्रत्वाद् एष्यत्काले' चतुर्थसमयादौ अकर्म चापि भवति, तज्जीवापेक्षया पुनस्तस्य तथाविधपरिणामाभावात् ॥७१॥ शैलेश्यकर्मताद्वारद्वयमर्थतो व्याचिख्यासुराह-'अथेति केवलावात्यनन्तरम् आयुष्कं पाल ॥३३५॥
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy