SearchBrowseAboutContactDonate
Page Preview
Page 682
Loading...
Download File
Download File
Page Text
________________ त्रिसप्तिपदानां फलनिरूपणम् । स्तद्विषयाऽऽशङ्कादिमालिन्याऽपनयनेन विशुद्धान् करोति ॥ ५७॥ कायसमाधारणया' संयमयोगेषु शरीरस्य सम्यग्व्यव- स्थापनरूपया 'चारित्रपर्यवान्' चारित्रभेदान् विशोधयति, तदुन्मार्गप्रवृत्तित एव प्रायस्तेषामतीचारकालुष्यसम्भवात् , तान् विशोध्य यथाख्यातचारित्रं 'विशोधयति' सर्वथाऽप्यसत उत्पत्त्यसम्भव इति पूर्वमपि कथञ्चित् सदेव तत् चारित्रमो- होदयमलिनं तन्निर्जरणेन निर्मलीकुरुते ॥५८॥ ज्ञानमिह प्रस्तावात् श्रुतज्ञानं तत्सम्पन्नतया 'सर्वभावाऽमिगम' सर्वपदार्थज्ञानं जनयति, चतुरन्ते संसारकान्तारे 'न विनश्यति' न मुक्तिमार्गाद् विशेषेण दूरीभवति । अमुमेवार्थ दृष्टान्तद्वारेण स्पष्टतरमाह-'यथे' त्यादि, यथा सूचिः ससूत्रा पतिता न विनश्यति, तथा जीवः सश्रुतः संसारे न विनश्यति । अत एव ज्ञानं च-अवध्यादि विनयश्च तपश्च चारित्रयोगाश्च-चारित्रव्यापारा ज्ञानविनयतपश्चारित्रयोगास्तान प्राप्नोति, तथा स्वसमयपरसमययोः सङ्घातनीयः-प्रमाणपुरुषतया मीलनीयः स्वसमयपरसमयसङ्घातनीयो भवति । इह च खसमयपरसमयनब्दाभ्यां तद्वेदिनः पुरुषा उच्यन्ते, तेष्वेव मीलनसम्भवात् ॥५९॥ 'दर्शनसम्पन्नतया' क्षयोपशमिकसम्यक्त्वसमन्विततया भवहेतुभूतं मिथ्यात्वं भवमिथ्यात्वं तस्य च्छेदन-क्षपणं भवमिथ्यात्वच्छेदनं करोति, कोऽर्थः ? क्षायिकसम्यक्त्वमवाप्नोति, ततश्च 'परमि'त्युत्तरकालम् उत्कृष्टतस्तस्मिन्नेव भवे मध्यमजघन्यापेक्षया तृतीये तुर्ये वा जन्मनि केवलज्ञानप्राप्तौ 'न विध्यायति' ज्ञानदर्शनप्रकाशाभावरूपं विध्यानं नाऽवाप्नोति, किन्तु 'अनुत्तरेण' क्षायिकत्वात् प्रधानेन ज्ञानदर्शनेनाऽऽत्मानं 'संयोजयन्' प्रतिसमयमपरापरेणोपयोगरूपतयोत्पद्यमानेन घटयन , संयोजनं च भेदेऽपि स्याद् अत आह-सम्यग् 'भावयन्' तेनाऽऽत्मानमात्मसाद् नयन् विहरति भवस्थकेवलितया ॥६०॥ चारित्रसम्पन्नता सूत्रम् , इन्द्रियसूत्राणि पश्च, कषायसूत्राणि च चत्वारि सुगमानि ॥ ६१-६२-६३-६४-६५-६६-६७-६८-६९-७० ॥ प्रेम च-रागरूपं द्वेषश्च मिथ्यादर्शनं च प्रेमद्वेषमिथ्यादर्शनानि तद्विजयेन ज्ञानदर्शनचारित्राराधनायाम् 'अभ्युत्तिष्ठति' उद्य
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy