SearchBrowseAboutContactDonate
Page Preview
Page 676
Loading...
Download File
Download File
Page Text
________________ | त्रिसप्तिपदानां फलनिरूपणम्। अन्त:-पर्यन्तो भवस्य कर्मणां वा तस्य क्रिया-निवर्त्तनम् अन्तक्रिया मुक्तिरित्यर्थः, ततश्च अन्तक्रियाहेतुत्वादन्तक्रिया ताम् । तद्धेतुत्वं च तद्भवेऽपि स्याद् अत आह—कल्पा:-देवलोका विमानानि-अवेयकाऽनुत्तरविमानरूपाणि तेषूपपत्तिर्यस्याः सा तथा ताम् । किमुक्तं भवति ?-अनन्तरजन्मनि विशिष्टदेवत्वफलां परम्परया तु मुक्तिप्रापिकाम् 'आराधनां' ज्ञानाद्याराधनामिकामाराधयति ॥ १४ ॥ कालः-प्रादोषिकादिस्तस्य प्रत्युपेक्षणा-ग्रहणप्रतिजागरणरूपा कालप्रत्युपेक्षणा तया ॥ १५ ॥ 'प्रायश्चित्तकरणेन' आलोचनादिविधानरूपेण 'मार्गः' इह ज्ञानप्राप्तिहेतुः सम्यक्त्वं, युगपदुत्पत्तावपि सम्यक्त्वस्य ज्ञानहेतुत्वात् , यदुक्तम्-"कारणकजविभागो, दीवपगासाण जुगवजम्मे |वि । जुगवुप्पन्नं पि तहा, हेऊ नाणस्स सम्मत्तं ॥ १॥" तत्फलं च ज्ञानं विशोधयति । ततश्च आचर्यत इत्याचारः-चारित्रं तच्च तत्फलं च-मुक्तिलक्षणमाराधयति ॥ १६॥ 'क्षमणया' दुःकृतानन्तरं क्षमितव्यमिदं ममेत्यादिरूपया 'प्रह्लादनभावं' चित्तप्रसत्तिरूपं 'भावविशुद्धि' रागद्वेषविगमरूपां कृत्वा निर्भयो भवति अशेषभयहेत्वभावात् ॥ १७ ॥ स्वाध्यायेन ज्ञानावरणीयम् उपलक्षणत्वात् शेषकर्म च क्षपयति, उक्तञ्च-"कैम्ममसंखेजभवं खवेइ | अणुसमयमेव उवउत्तो । अन्नयरम्मि वि जोए, सज्झायम्मि य विसेसेणं ॥ १॥" ॥ १८ ॥ 'वाचनया' पाठनेन अनुषञ्जने वर्त्तते, कोऽर्थः ? अव्यवच्छेदं करोति, तीर्थमिह गणधरस्तस्य धर्म:-आचारः श्रुतप्रदानलक्षणः तीर्थधर्मस्तम् 'अवलम्बमानः' आश्रयन् महत्-प्रशस्य मुक्त्यवाप्त्या पर्यवसानम्-अन्तो गम्यमानत्वात् कर्मणो यस्य स महापर्यवसानः॥ १९ ॥ पूर्वकथितसूत्रादेः पुनः प्रच्छनं प्रतिप्रच्छनं तेन काङ्क्षा-इदमित्थमित्थं च ममाध्येतुमुचितमित्यादिका "कारणकार्य विभागो, दीपप्रकाशयोयुगपजन्मन्यपि । युगपदुत्पन्नमपि तथा, हेतुनिस्य सम्यक्त्वम् ॥१॥" २ "कर्माऽसङ्केयभविकं क्षपयत्यनुसमयमेवोपयुक्तः । अन्यतरस्मिन्नपि योगे स्वाध्याये च विशेषेण ॥१॥" XXXXXXXXXXXXX
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy