SearchBrowseAboutContactDonate
Page Preview
Page 675
Loading...
Download File
Download File
Page Text
________________ एकोनत्रिशं सम्यक्त्वपराक्रमाख्यमध्ययनम्। श्रीउत्तरा- उपलक्षणत्वात् स्थितिघात-रसघात-गुणसङ्क्रम-स्थितिबन्धाश्च विशिष्टाः, अथवा करणगुणेन-अपूर्वकरणादिमाहात्म्येन ध्ययनसूत्रे श्रेणिः करणगुणश्रेणिः प्रक्रमात् क्षपकश्रेणिरेव तां प्रतिपद्यते ॥६॥ गर्हणेन' परसमक्षमात्मनो दोषोद्भावनेन "अपुरकार" श्रीनेमिच- | ति अपुरस्कारम् अवज्ञास्पदत्वं जनयत्यात्मन इति गम्यते, अपुरस्कारगतः तद्भीत्यैवाऽप्रशस्तेभ्यो योगेभ्यो निवर्त्तते, न्द्रीया | अनन्तविषयतया अनन्ते-ज्ञानदर्शने घ्नन्तीत्यनन्तघातिनस्तान् ‘पर्यवान्' ज्ञानावरणादिकर्मणः परिणतिविशेषान् , उपलक्षणं सुखबोधा- चैतद् मुक्तिप्राप्तेः, तदर्थत्वात् सर्वप्रयासस्य । एवमनुक्ताऽपि सर्वत्र मुक्तिप्राप्तिरेव फलत्वेन द्रष्टव्या ॥७॥ सामायिकचतुर्विख्या लघु- शतिस्तवसूत्रे प्रकटे ॥८-९॥ वन्दनकेन सौभाग्यं चाप्रतिहतम् , 'आज्ञाफलम्' आज्ञासारमित्यर्थः 'दक्षिणभावं च' अनुकूलवृतिः । भावं जनयति लोकस्येति गम्यते॥१०॥प्रतिक्रमणेन अशबलं-शबलस्थानेरकर्बुरीकृतं चारित्रं यस्य स तथा, "अपुहुत्ते' तिन ॥३३१॥ Is विद्यते पृथक्त्वं-प्रस्तावात् संयमयोगेभ्यो वियुक्तत्वस्वरूपं यस्याऽसावपृथक्त्वः, तथा 'सुप्रणिहितः' सुष्ठ संयमे प्रणिधिमान् , शेष सुगमम् ॥११॥ कायोत्सर्गेण अतीतं च-इह चिरकालभावित्वेन प्रत्युत्पन्नमिव प्रत्युत्पन्नं च आसन्नकालभावितया अतीतप्रत्युत्पन्नं 'प्रायश्चित्तम्' इत्युपचारात् प्रायश्चित्ताहमतीचारम् ॥१२॥ प्रत्याख्यानसूत्रं सुगमम् ॥१३॥ स्तवाः-देवेन्द्रस्तवादयः स्तुतयः-एकादिसप्तश्लोकान्ताः, यत उक्तम्-"एंगदुगत्तिसिलोगा, थुईओ अन्नेसि जाव सत्तेव । देविंदत्थयमाई, तेण परं थुत्तया होंति ॥१॥" ततश्च स्तुतयः स्तवाश्च स्तुतिस्तवाः स्तुतिशब्दस्य क्त्यन्तत्वात् पूर्वनिपातः, सूत्रे तु प्राकृतत्वाद् व्यत्ययः, त एव मङ्गलं-भावमङ्गलरूपं स्तुतिस्तवमङ्गलं तेन ज्ञानदर्शनचारित्रात्मिका बोधिः ज्ञानदर्शनचारित्रबोधिः तल्लाभं जनयति ॥ उक्तं च- भत्तीए जिणवराणं, परमाए खीणपेजदोसाणं । आरुग्गबोहिलाभ, समाहिमरणं च पावेंति ॥१॥" | त्रिसप्तिपदानां फल| निरूपणम् । |||३३१॥ "एकद्वित्रिश्लोकाः, स्तुतयोऽन्येषां यावत् सप्तव । देवेन्द्रस्तवाद्यास्ततः परं स्तवा भवन्ति ॥१॥" २ "भच्या जिनवराणां, परमया क्षीणप्रेमद्वेषाणाम् । आरोग्यबोधिळाभ, समाधिमरणञ्च प्राप्नुवन्ति ॥ १॥"
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy