SearchBrowseAboutContactDonate
Page Preview
Page 677
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनेमिच न्द्रीया सुखबोधाख्या लघुधृत्तिः । एकोनत्रिंशं सम्यक्त्वपराक्रमाख्यमध्ययनम्। त्रिसप्तिपदानां फलनिरूपणम् । ॥३३२॥ वाञ्छा सैव मोहयतीति मोहनीयं 'कर्म' अनभिग्रहिकमिथ्यात्वरूपं व्युच्छिनत्ति ॥ २० ॥ परावर्तनया 'व्यञ्ज नानि' अक्षराणि जनयति, तानि हि विगलितान्यपि गुणयतः झगित्युत्पतन्तीति उत्पादितानि उच्यन्ते, तथा तथाविधक्षयोपशमतो व्यञ्जनलाधं चशब्दात् पदलब्धि पदानुसारितालक्षणाम् ॥ २१ ॥ 'अनुप्रेक्षया' चिन्तनिकया इस्वस्थितिकाः प्रकरोति, स्थितिखण्डकापहारेणेति भावः, एतश्चैवं सर्वकर्मणामपि स्थितेरशुभत्वात् । यत उक्तम्- "सवासि पि ठिईओ, सुहासुहाणं पि होंति असुभाओ । माणुसतिरिच्छदेवाउयं च मोत्तूण सेसाणं ॥१॥" मन्दानुभावाश्च इत्यत्राऽशुभप्रकृतय एव गृह्यन्ते, शुभभावस्य शुभासु तीब्रानुभावहेतुत्वात् । उक्तं हि-"सुहपयडीण विसोहीए तिवमसुभाण संकिलेसेणं" ति । आयुःकर्म च स्याद् बध्नाति स्याद् नो बनाति, तस्य त्रिभागादिशेषायुष्कतायामेव बन्धसम्भवात् । असातवेदनीयं च कर्म चशब्दाद् अन्याश्चाशुभप्रकृती! भूयोभूयः 'उपचिनोति' निबध्नाति । भूयोभूयोग्रहणं त्वन्यतमप्रमादतः प्रमत्तसंयतस्य तद्वन्धस्यापि सम्भवात् , अनादिकम् 'अनवदप्रम्' अनन्तम् , अत एव "दीहमद्धं" ति मकारोऽलाक्षणिकः 'दीर्घाद्धं' दीर्घकालम् ॥ २२ ॥ धर्मकथया "आगमे सस्सभदत्ताए" त्ति आगमिष्यतीति आगम:आगामी कालस्तस्मिन् शश्वद्भद्रतया-अनवरतकल्याणतयोपलक्षितं कर्म निबध्नाति, शुभानुबन्धि शुभमुपार्जयतीति भावः ॥ २३ ॥ श्रुतस्य 'आराधनया' सम्यगासेवनया 'न च सङ्किश्यते' नैव रागादिजनितसक्लेशभाग् भवति, तद्वशतो नवनवसंवेगावाप्तेः ॥२४॥ एकं च तदनं च-प्रस्तावात् शुभमालम्बनमेका तस्मिन् मनःसन्निवेशना एकाग्रमनःसन्निवेशना तया ॥२५॥ 'संयमेन' पञ्चास्रवविरमणादिना, "अणण्हयत्तं" ति 'अनंहस्कत्वम्' अविद्यमानकर्मत्वम् ॥२६॥ तपसा "वोयाणं" , "सर्वासामपि स्थितयः, शुभाऽशुभानामपि भवन्यशुभाः। मनुष्यतिर्यग्देवायूंषि च मुक्त्वा शेषाणाम् ॥१॥" २ "शुभप्रकृ. तीनां विशुज्या तीव्रमशुभानां सहेशेन"। ॥३३२॥
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy