________________
व्याख्या- 'ज्ञानेन' मत्यादिना जानाति भावान्, दर्शनेन च श्रद्धत्ते, चारित्रेण च 'न गृहाति' नाऽऽदत्ते कर्मेति गम्यते, तपसा 'परिशुध्यति' पुरोपचितकर्मक्षपणतः शुद्धो भवतीति सूत्रार्थः ॥ ३५ ॥ अनेन मार्गस्य फलं मोक्ष उक्तः । सम्प्रति मोक्षफलभूतां गतिमाह
खवित्ता पुचकम्माई, संजमेण तवेण य । सङ्घदुक्खप्पहीणट्टा, पक्कमंति महेसिणो ॥ ३६ ॥ त्ति बेमि ॥ व्याख्या— क्षपयित्वा पूर्वकर्माणि संयमेन तपसा च "सन्वदुक्खप्पहीणट्ट" त्ति प्राकृतत्वात् प्रक्षीणानि सर्वदुःखानि यत्र तत्तथा तच्च सिद्धिक्षेत्रमेव तदर्थयन्ति ये ते तथाविधाः प्रक्रामन्ति सिद्धिमिति शेषः “मद्देसिणो" त्ति महर्षय इति सूत्रार्थः ॥ ३६ ॥ 'इति' परिसमाप्तौ ब्रवीमीति पूर्ववत् ॥
इति श्रीनेमिचन्द्रसूरिविनिर्मितायां उत्तराध्ययनसूत्रलघु टीकायां सुखबोधायां मोक्षमार्गीयाख्यमष्टाविंशतितममध्ययनं समाप्तम् ॥
मोक्षमार्गगति
स्वरूपम् ।