________________
मोक्षमार्ग
गतिस्वरूपम् ।
व्याख्या-समः-रागद्वेषरहितः स चेह प्रस्तावात् चित्तपरिणामस्तस्मिन् आय:-मनं समायः स एव 'सामायिक Halसर्वसावद्यपरिहारः, 'त्थ' इति पूरणे, 'प्रथमम्' आद्यम् । एतच्च द्विधा-इत्वरं यावत्कथिकं च । तत्र इत्वरं भरतैरावतयोः,
प्रथमचरमतीर्थकरतीर्थयोरुपस्थापनायां छेदोपस्थापनीयभावेन तत्र तद्व्यपदेशाभावात् । यावत्कथिकं च तयोरेव, मध्यमतीर्थकरतीर्थेषु महाविदेहेषु चोपस्थापनाया अभावेन तद्व्यपदेशस्य यावज्जीवमपि सम्भवात् । तथा छेदः-सातिचारस्य यतेनिरतिचारस्य वा शिक्षकस्य तीर्थान्तरसम्बन्धिनो वा तीर्थान्तरं प्रतिपद्यमानस्य पूर्वपर्यायव्यवच्छेदरूपः तद्युक्तोपस्थापना! महाव्रतारोपणरूपा यस्मिन् तत् छेदोपस्थापनं भवेद् द्वितीयम्। तथा परिहरणं परिहारः-विशिष्टतपोरूपस्तेन विशुद्धिरस्मि| निति परिहारविशुद्धिकम् । तच्चैतद्गाथाभ्योऽवसेयम् - परिहारियाण उ तवो, जहन्न मझो तहेव उक्कोसो। सीउण्हवासकाले, भणिओ धीरेहिं पत्तेयं ॥ १॥ तत्थ जहन्नो गिम्हे, चउत्थ छटुंतु होइ मज्झिमओ । अहममिहमुक्कोसो, एत्तो सिसिरे पवक्खामि ॥२॥ सिसिरे उ जहन्नाई, छट्ठाई दसमचरिमगो होइ । वासासु अट्ठमाई, बारसपजंतगो नेओ ॥३॥ पारणगे आयाम, पंचसु पगहो दोसऽभिग्गहो भिक्खे । कप्पट्ठिया य पइदिण, करंति एमेव आयामं ॥४॥ एवं छम्मासतवं, चरित्रं परिहारिया अणुचरंति । अणुचरए परिहारगपयट्टिए जाव छम्मासा ॥ ५ ॥ कप्पट्टिओ वि एवं, छम्मासतवं करेइ सेसा उ । अणुपरिहारगभावं, चरंति कप्पट्ठियत्तं च ॥६॥ एवेसो अट्ठारसमासपमाणो उ वनिओ कप्पो।
"परिहारिकाणां तु तपः, जघन्यं मध्यमं तथैवोत्कृष्टम् । शीतोष्णवर्षाकालेषु, भणितं धीरैः प्रत्येकम् ॥ १॥ तत्र जघन्य ग्रीष्मे, चतुर्थ षष्ठं तु भवति मध्यमतः । अष्टममिहोत्कृष्टं, इतः शिशिरे प्रवक्ष्यामि ॥ २ ॥ शिशिरे तु जघन्यादि, षष्टादि दशमचरमकं भवति । वर्षास्वष्टमादि, द्वादशपर्यन्तकं शेयम् ॥३॥ पारणके आचामाम्लं, पञ्चानां प्रग्रहो द्वयोरभिग्रहो भिक्षायाम् । करूपस्थिताश्च प्रतिदिनं, कुर्वन्स्येवमेवाचामाम्लम् ॥ ४॥ एवं षण्मासतपः, चरित्वा परिहारिका अनुचरन्ति । अनुचरकाः परिहारकपदस्थिताः यावत् षण्मासाः॥५॥ कल्पस्थितोऽपि एवं, षण्मासतपः करोति शेषास्तु । अनुपरिहारकभावं, चरन्ति कल्पस्थितस्वं च ॥ ६ ॥ एवमेषोऽष्टादशमासप्रमाणस्तु वर्णितः कल्पः ।