SearchBrowseAboutContactDonate
Page Preview
Page 657
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनेमिच न्द्रीया सुखबोधाख्या लघुवृत्तिः । ॥३२२॥ नाऽदर्शनिनो ज्ञानं, ज्ञानेन विना न भवन्ति चरणान्तर्गता गुणाश्चरणगुणाः, 'अगुणिनः' अनन्तरोक्तगुणरहितस्य नास्ति अष्टाविंश मोक्षः कर्मण इति गम्यते, नास्त्यमुक्तस्य निर्वाणम् । तदत्र पूर्वसूत्रेण मुक्त्यनन्तरहेतोरपि चरणस्य सम्यक्त्वभाव एव मोक्षमार्गीभवनं तन्माहात्म्यमुक्तम् , अनन्तरसूत्रेण तूत्तरोत्तरव्यतिरेकदर्शनेनाऽशेषगुणानामिति सूत्रद्वयार्थः ।। २९-३० ।। अस्य याख्यमचाष्टविधाचारसहितस्यैवोत्तरोत्तरगुणप्राप्तिहेतुतेति तमादर्शयितुमाह ध्ययनम्। निस्संकिय निकंखिय, निवितिगिच्छा अमूढदिट्ठीय।उववूह-थिरीकरणे, वच्छल्ल-पभावणे अट्ठ ३१ || मोक्षमार्ग गतिव्याख्या-शङ्कनं शङ्कितं-देशसर्वशङ्कात्मकं तदभावो निःशङ्कितम् , तथा काणं काङ्कितम्-अन्याऽन्यदर्शनग्रहात्मकं खरूपम् । तदभावो निःकाडितम् , विचिकित्सा-फलं प्रति सन्देहः विदः-विज्ञाः ते च तत्त्वतः साधव एव तजुगुप्सा वा तदभावो निर्विचिकित्सं निर्विजुगुप्सं वा, आर्षत्वाच्च सूत्रे एवं पाठः । अमूढा-ऋद्धिमत्कुतीर्थिकदर्शनेऽप्यविगीतमस्मद्दर्शनमिति मोहरहिता सा चासौ दृष्टिश्च-बुद्धिरूपा अमूढदृष्टिः, स चायं चतुर्विधोऽपि आन्तर आचारः । बाह्य तु आहउपहा-दर्शनादिगुणवतां प्रशंसया तत्तद्गुणपरिवर्द्धनं सा च स्थिरीकरणश्च-अभ्युपगतधर्मानुष्ठानं प्रति सीदतां | स्थैर्याऽऽपादनमुपबृंहास्थिरीकरणे, वात्सल्यं-साधर्मिकजनस्योचितप्रतिपत्तिकरणं तच्च प्रभावना च-स्वतीर्थोन्नतिहेतुचेष्टासु प्रवर्तनं वात्सल्यप्रभावने, अष्टैते दर्शनाचारा भवन्तीति शेष इति सूत्रार्थः ॥ ३१ ॥ इत्थं ज्ञानदर्शनाख्यं मुक्तिमार्गमभिधाय तमेव चारित्ररूपमाह ॥३२२॥ सामाइय त्थ पढमं, छेओवट्ठावणं भवे वीयं । परिहारविसुद्धीयं, सुहुमं तह संपरायं च ॥ ३२ ॥ अकसायं अहक्खायं, छडमत्थस्स जिणस्स वा । एयं चयरित्तकरं, चारित्तं होइ आहियं ॥ ३३ ॥ XoxoxoXXXX
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy