________________
गति
तव्यः । शिष्यमतिव्युत्पादनाथं चेत्थमुपाधिभेदेन सम्यक्त्वभेदाभिधानम्, अन्यथा हि निसर्गोपदेशयोरधिगमादौ वा X मोक्षमार्ग• कचित् केपाश्चिदन्तर्भाव इति भावनीयमिति सूत्रैकादशकार्थः ॥ १७-१८-१९-२००२१-२२-२३-२४-२५-२६-२७॥ के पुनर्लिङ्गैरिदं सम्यक्त्वमुत्पन्नमस्तीति श्रद्धेयम् ? इत्याह
खरूपम्। परमत्थसंथवोवा, सुदिट्ठपरमत्थसेवणावा वि । वावन्नकुदंसणवज्जणा य सम्म त्तसद्दहणा ॥२८॥ . व्याख्या-परमाश्च ते-तात्त्विका अर्थाश्च-जीवादयः परमार्थास्तेषु संस्तवः-परिचयः परमार्थसंस्तवः, वाशब्दः समुचये, तथा सुषु दृष्टाः-उपलब्धाः परमार्था यैस्ते सुदृष्टपरमार्था:-आचार्यादयस्तत्सेवनं, 'वे' त्यनुक्तसमुच्चये, ततो यथाशक्ति तद्वैयावृत्त्यप्रवृत्तिश्च, 'अपि:' समुच्चये, “वावनकुदसण" त्ति दर्शनशब्दः प्रत्येकं सम्बध्यते, ततो व्यापनंविनष्टं दर्शनं येषां ते व्यापन्नदर्शना निहवादयः तथा कुत्सितं दर्शनं येषां ते कुदर्शना:-शाक यादयस्तेषां वर्जनं व्यापअकुदर्शनवर्जनम्, सर्वत्र सूत्रत्वात् स्त्रीलिङ्गनिर्देशः, 'चः' समुच्चये, सम्यक्त्वं श्रद्धीयतेऽनेनेति सम्यक्त्वश्रद्धानमिति सूत्रार्थः ॥ २८ ॥ इत्यं सम्यक्त्वस्य लिङ्गान्यभिधाय तस्यैव माहात्म्यमुपदर्शयन्नाहनत्थि चरित्तं सम्मत्तविहूणं दसणे उ भइयवं । सम्मत्त-चरित्ताई, जुगवं पुत्वं व सम्मत्तं ॥१९॥
नादंसणिस्स नाणं, नाणेण विणा न हुंति चरणगुणा।
अगुणिस्स नस्थि मोक्खो, नत्थि अमोक्खस्स निवाणं ॥३०॥ व्याख्या-नास्ति चारित्रं सम्यक्त्वविहीनं 'दर्शने तु' सम्यक्त्वे पुनः सति 'भक्तव्यं भवति वा न वा प्रक्रमात चारित्रम् , किमित्येवम् ? अत आह-सम्यक्त्वचारित्रे युगपत् समुत्पद्यते इति शेषः, 'पूर्व वा' चारित्रोत्पत्तेः सम्यक्त्वमुत्पद्यते, ततो यदा युगपदुत्पादस्तदा तयोः सहभावः, यदा तु पूर्व सम्यक्त्वं तदा तस्मिन् चारित्रं भाज्यम् ॥ अन्यच