________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधा
ख्या लघुवृत्तिः ।
॥३२१॥
सम्यक्त्वम् 'अङ्गेन' आचारादिना 'बाह्येन वा' अनङ्गप्रविष्टेन स सूत्ररुचिरिति ज्ञातव्यः ॥ बीजरुचिमाह - 'एकेन ' अष्टाविंशं प्रक्रमात् पदेन जीवादिना "अणेगाई पयाई” ति सुव्यत्ययाद् अनेकेषु पदेष्वजीवादिषु यः प्रसरति 'तुः' एवकारार्थः | प्रसरत्येव सम्यक्त्वमित्यनेन रुचिरत्रोपलक्षिता, तदभेदोपचारादात्माऽपि सम्यक्त्वमुच्यते, उपचारनिमित्तं च रुचिरूपेणैव याख्यमआत्मनः प्रसरणम्, 'उदक इव तैलविन्दुः' यथोदकैकदेशगतोऽपि तैलविन्दुः समस्तमुदकमाक्रामति तथैकदेशोत्पन्नरुचिरप्यात्मा तथाविधक्षयोपशमाद् अशेषतत्त्वेषु रुचिमान् भवति स एवंविधो बीजरुचिर्ज्ञातव्यः ॥ अभिगमरुचिमाह - भवति अभिगमरुचिः श्रुतज्ञानं येनार्थतः 'दृष्टम्' उपलब्धम् एकादशाङ्गानि प्रकीर्णकमिति जातावेकवचनम्, ततः प्रकीर्णकान्युत्तराध्ययनादीनि 'दृष्टिवाद:' द्वादशं अङ्गम् श्वशब्दादुपाङ्गानि ॥ विस्ताररुचिमाह — 'द्रव्याणां ' धर्मास्तिकायादीनां 'सर्वभावाः' एकत्व - पृथक्त्वाद्यशेषपर्यायाः 'सर्वप्रमाणैः' प्रत्यक्षादिभिर्यस्य ' उपलब्धाः ' यस्य यत्र व्यापार| स्तेनैव प्रमाणेन ते प्रतीताः । “सवाहिं" ति सर्वैः 'नयविधिभिः' नैगमादिभेदैः अमुं भावं अयम् अमुं चायं नयभेद इच्छतीति, 'चः' समुच्चये, स विस्ताररुचिरिति ज्ञातव्यः ॥ क्रियारुचिमाह — दर्शनं च ज्ञानं च चारित्रं च दर्शनज्ञानचारित्रं तस्मिन् तपोविनये सत्यसमितिगुप्तिषु यः क्रियाभावरुचिः, किमुक्तं भवति ? - दर्शनाद्याऽऽचारानुष्ठाने यस्य भावतो रुचिरस्ति स खलु क्रियारुचिः 'नामे'त्यभ्युपगमः ॥ सङ्क्षेपरुचिमाह - अनभिगृहीतकुदृष्टिः सङ्क्षेपरुचिरिति भवति ज्ञातव्यः, 'अविशारदः' अकुशलः प्रवचने "अणभिग्गहिओ य" त्ति अविद्यमानम् अभी ति-आभिमुख्येन गृहीतं - ग्रहणं ज्ञानमस्येत्यनमिगृहीतः 'चः' समुच्चये, 'शेषेषु' कपिलादिप्रणीतप्रवचनेषु, अयमाशयः — य उक्तविशेषणः सङ्क्षेपेणैव चिलातीपुत्रवत् पदत्रयेण तत्त्वरुचिमवाप्नोति स सङ्क्षेपरुचिः ॥ धर्मरुचिमाह — योऽस्तिकायानां धर्मः गत्युपष्टम्भादिः अस्तिकायधर्मस्तं श्रुतधर्म 'खलुः' वाक्यालङ्कारे चारित्रधर्म वा, चस्य वार्थत्वात्, श्रद्दधाति जिनाभिहितं स धर्मरुचिर्ज्ञा
XCXCXCXXXXXX CXCXCXX
मोक्षमार्गी
ध्ययनम् ।
मोक्षमार्गगति
स्वरूपम् ।
॥ ३२१ ॥