________________
मोक्षमार्ग
गतिस्वरूपम् ।
दीदवाण सवभावा, सवपमाणेहिं जस्स उवलद्धा। सवाहिं नयविहीहि य, वित्थाररुइ त्ति नायवो ॥२४॥ दसण-नाण-चरित्ते, तव-विणए सच्च-समिइ-गुत्तीसु।जो किरियाभावरुई,सोखलु किरियाई नाम॥ अणभिग्गहियकुदिट्ठी,संखेवरुइ त्ति होइ नायबो।अविसारओ पवयणे,अणभिग्गहिओय सेसेसु॥ जो अस्थिकायधम्म,सुयधम्मंखलु चरित्तधम्मंच।सद्दहइ जिणाभिहियं,सोधम्मरुइत्ति नायबो। __व्याख्या-भावप्रधानत्वात् निर्देशस्य 'भूतार्थत्वेन' सद्भूता अमी अर्था इत्येवंरूपेण 'अधिगताः' परिच्छिन्ना येनेति गम्यते, जीवा अजीवाश्च पुण्यं पापंच, कथमधिगताः ? इत्याह-"सहसम्मइय"त्ति सोपस्कारत्वात् सूत्रत्वाच्च सहाऽऽत्मना या सङ्गता मतिः सा सहसम्मतिः, कोऽर्थः ? परोपदेशनिरपेक्षतया जातिस्मरणप्रतिभादिरूपया, "आसवसंवरे य" त्ति आश्रवसंवरौ, चशब्दोऽनुक्तबन्धादिसमुच्चये, ततो बन्धादयश्च, तथा 'रोचते तु' रोचते एव योऽन्यस्याऽश्रुतत्वादनन्तरोपायेनाऽधिगतान् जीवादीनेव 'निसर्गः' इति निसर्गरुचि यः स इति शेषः ॥ अमुमेवार्थ पुनः स्पष्टतरमेवाह-यो जिनदृष्टान् भावान् 'चतुर्विधान्' द्रव्यक्षेत्रकालभावभेदतो नामादिभेदतो वा श्रद्दधाति 'स्वयमेव' परोपदेशं विना, "एमेय" त्ति एवमेतत् यथा जिनैदृष्टं जीवादि नान्यथेति, 'चः' समुच्चये, स निसर्गरुचिरिति ज्ञातव्यः ॥ उपदेशरुचिमाह-एतांश्चैव 'तुः' पूरणे भावान् उपदिष्टान् यः परेण श्रद्दधाति छद्मस्थेन जिनेन वा स उपदेशरुचिरिति ज्ञातव्यः॥ आज्ञारुचिमाह-रागो द्वेषः 'मोहः' शेषमोहनीयम् अज्ञानं च, चस्य गम्यमानत्वाद् यस्याऽपगतं भवति, सर्वथा चाऽस्यैतदपगमाऽसम्भवाद् देशत इति गम्यते, एतदपगमाच्च "आणाए” त्ति आज्ञयैवाऽऽचार्यादिसम्बन्धिन्या 'रोचमानः' कचित्कुग्रहाऽभावात् जीवादि तथेति प्रतिपद्यमानो माषतुषादिवत् 'खलु' निश्चितम् आज्ञारुचिर्नामेत्यभ्युपगन्तव्यः ॥ सूत्ररुचिमाह-यः सूत्रम् 'अधीयानः' पठन् 'श्रुतेन' अधीयमानेन 'अवगाहुते' प्राप्नोति 'तुः' पूरणे