________________
मोक्षमार्ग
गतिस्वरूपम् ।
तत्थ पंचविहं नाणं, सुयमाभिणिबोहियं । ओहिनाणं तइयं, मणनाणं च केवलं ॥४॥
व्याख्या-स्पष्टमेव । नवरम्—'तत्रे'ति तेषु ज्ञानादिषु मध्ये "मणनाणं" ति मनःपर्यायज्ञानं, 'चः समुच्चये भिन्नक्रमः, ततः केवलं च । आह-नन्द्यादिषु मतिज्ञानानन्तरं श्रुतज्ञानमुक्तम् , तदिह किमर्थमादित एव श्रुतोपादानम् ? उच्यते, शेषज्ञानानामपि स्वरूपपरिज्ञानस्य प्रायस्तधीनत्वेन प्राधान्यख्यापनार्थमिति सूत्रार्थः ॥४॥ साम्प्रतं ज्ञानशब्दस्य सम्बन्धिशब्दत्वादु येषां तज्ज्ञानं तान्यभिधातुमाह| एयं पंचविहं नाणं, दवाण य गुणाण य । पजवाणं च सवेसिं, नाणं नाणीहिं देसियं ॥५॥
व्याख्या-एतत्पञ्चविधं ज्ञानं द्रव्याणां च 'गुणानाञ्च' रूपादीनां 'पर्यवाणांच' द्रव्यगुणावस्थाविशेषरूपाणां सर्वेषां केवलापेक्षया च सर्वशब्दोपादानम् , शेषज्ञानानां प्रतिनियतपर्यायग्राहितत्वात् । 'ज्ञानम्' अवबोधकं 'ज्ञानिभिः' अर्थात् केवलिभिः 'दर्शितं' कथितमिति सूत्रार्थः ॥५॥ अनेन द्रव्यादिविषयत्वं ज्ञानस्योक्तम् , तत्र च द्रव्यादीनि किंलक्षणानि ? इत्याहगुणाणमासओ दवं, एगदबस्सिया गुणा। लक्खणं पज्जवाणं तु, उभओ अस्सिया भवे ॥६॥
व्याख्या-गुणानामाश्रयो द्रव्यम् , अनेन रूपादय एव वस्तु न तु तद्व्यतिरिक्तमन्यदिति सुगतमतमपास्तम् । तथा एकस्मिन् द्रव्ये-आधारभूते आश्रिताः-स्थिता एकद्रव्याश्रिता गुणाः, एतेन च ये द्रव्यमेवेच्छन्ति न तद्व्यतिरिक्ता | रूपादयः तन्मतं निराकृतम् । लक्षणं पर्यवाणां 'तुः' विशेषणे 'उभयोः' द्वयोः-प्राकृतत्वाद् द्रव्यगुणयोराश्रिताः "भवे" त्ति भवेयुरिति सूत्रार्थः ॥ ६ ॥ 'गुणानामाश्रयो द्रव्यमि'त्युक्तम् । तत्र कतिभेदं द्रव्यम् ? इत्याशझ्याऽऽहधम्मो अहम्मो आगासं, कालो पुग्गलजंतवो । एस लोगो त्ति पन्नत्तो, जिणेहिं वरदंसिहिं॥७॥
व्याख्या-'धर्मः' इति धर्मास्तिकायः 'अधर्मः' इत्यधर्मास्तिकायः 'आकाशम्' इत्याकाशास्तिकायः 'कालः' अद्धा
उ०अ०५४