________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधा
ख्या लघुवृतिः ।
॥३१८ ॥
XCXCXCXXCX
X8XQXCXCXCXCX
अथ अष्टाविंशं मोक्षमार्गीयाख्यमध्ययनम् ।
व्याख्यातं सप्तविंशमध्ययनम् । अधुना मोक्षमार्गगत्याख्यमष्टाविंशमारभ्यते, अस्य चायमभिसम्बन्धः – 'अनन्तराध्ययनेऽशठतोक्ता, तद्व्यवस्थितस्य मोक्षमार्गगतिप्राप्तिरिति तदभिधायकमिदमारभ्यते' इत्यनेन सम्बन्धेनाऽऽयातस्यास्यादिसूत्रम्मोक्खमग्गगईं तचं, सुणेह जिणभासियं । चउकारणसंजुत्तं, नाणदंसणलक्खणं ॥ १ ॥ व्याख्या— मोक्षः– अष्टविधकर्मोच्छेदस्तस्य मार्ग : - ज्ञानादिरूपो यो मोक्षमार्गस्तेन गतिः - सिद्धिगमनरूपा मोक्षमार्गगतिस्तां कथ्यमानामिति गम्यते, "तचं" ति 'तथ्याम्' अवितथां शृणुत जिनभाषिताम्, चत्वारि कारणानि - वक्ष्यमा णानि तैः संयुक्ता चतुः कारणसंयुक्ता ताम् । नन्वमूनि चत्वारि कारणानि कर्मक्षयलक्षणस्य मोक्षस्यैव, गतेस्तु तदनन्तरभावित्वात् स एवेति कथं चतुः कारणवतीत्वमस्याः ? उच्यते—व्यवहारतः कारणकारणस्यापि कारणत्वाभिधानात् । अत | एवानन्तरकरणस्यैव कारणत्वम् इत्याशङ्कापोहार्थमस्य विशेषणस्योपन्यासः, अन्यथा हि मोक्षमार्गेण गतिरिति विग्रहे गतिं प्रति मार्गस्य कारणत्वं प्रतीयते एव तद्रूपाणि चाऽमूनि चत्वारि कारणानि । तथा ज्ञानदर्शने लक्षणं-स्वरूपं यस्याः सा तथा तामिति सूत्रार्थः ॥ १ ॥ यदुक्तं 'मोक्षमार्गगतिं शृणुत' इति तत्र मोक्षमार्गगतिं तावदाहनाणं च दंसणं चेव, चरितं च तवो तहा। एस मग्गो त्ति पन्नत्तो, जिणेहिं वरदंसिहिं ॥ २ ॥
व्याख्या – सुगममेव ॥ २ ॥ सम्प्रत्येतस्यैवाऽनुवादद्वारेण फलमुपदर्शयितुमाह - नाणं च दंसणं चेव, चरितं च तवो तहा। एयं मग्गमणुप्पत्ता, जीवा गच्छंति सोग्गइं ॥ ३ ॥ व्याख्या - प्रतीतमेव । नवरम् - " एयं” ति 'एनम्' अनन्तरमुक्तम् ॥ ३ ॥ ज्ञानादीन्येव यथाक्रममभिधातुमाह
XBXCXCX-3
अष्टाविंशं मोक्षमार्गीयाख्यम
ध्ययनम् ।
मोक्षमार्ग
गति
स्वरूपम् ।
॥३१८ ॥