SearchBrowseAboutContactDonate
Page Preview
Page 648
Loading...
Download File
Download File
Page Text
________________ कुशिष्यत्यागः। प्रक्रमात् प्रेरितः, केवलमात्मा मे अवसीदति, एतत्प्रेरणाव्यप्रतथा स्वकृत्यहानेः तद्वरमेतत्त्यागत उद्यतविहारेण विहृतमिति भावः॥ अथैतत्प्रेरणान्तराले स्वकृत्यमपि किं न क्रियते ? इत्याह-यादृशा मम शिष्याः 'तुः पूरणे, तादृशा गलिगर्दभा यदि परमिति गम्यते, गर्दभग्रहणम् अतिकुत्साख्यापकम् , ते हि स्वरूपतोऽपि अतिप्रेरणयैव प्रवर्त्तन्ते, ततस्तत्प्रेरणयैव कालोऽतिक्रामति न तु तदन्तरालसम्भव इति भावः। यतश्चैवम् अतो गलिगर्दभानिव 'गलिगर्दभान्' दु:शिष्यान् त्यक्त्वा दृढं परिगृह्णाति गर्गनामा 'तपः' अनशनादीति सूत्रद्वयार्थः ॥ १५-१६ ॥ एतदेवाहमिउमद्दयसंपन्ने, गंभीरे सुसमाहिए। विहरई महिं महप्पा, सीलभूएण अप्पण॥१७॥त्ति बेमि॥ व्याख्या-'मृदुः' बहिर्वृत्त्या विनयवान् 'मार्दवसम्पन्नः' अन्तःकरणतोऽपि सादृगेव, 'गम्भीर!' अलब्धमध्यः 'सुसमाहितः' सुष्टु समाधिमान् विहरति महीं महात्मा 'शीलभूतेन' चारित्रप्राप्तेन आत्मना उपलक्षितः । यतश्चैवं खलुकताऽऽत्मनो गुरूणां चेहैव दोषहेतुः अतस्तत्त्यागतोऽशठतैव सेवितव्येत्यध्ययनतात्पर्यार्थः ॥ १७ ॥ 'इतिः' परिसमाप्तौ ब्रवीमीति पूर्ववत् ॥ XXXXXXXXXXX इति श्रीनेमिचन्द्रसूरिविरचितायां उत्तराध्ययनसूत्रलघुटीकायां सुखबोधायां खलुकीयाख्यं सप्तविंशमध्ययनं समाप्तम् ॥
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy