________________
कुशिष्यस्वरूपम् ।
'तस्य' खलुकयोजयितुर्भज्यते ॥ ततश्चाऽतिरुष्टः सन् स यत् करोति तदाऽऽह-एक 'दशति' दशनैर्भक्षयति पुच्छे, एक 'विध्यति' आरया तुदति 'अभीक्ष्णं' पुनः पुनः । अथ ते किं कुर्वन्ति ? इत्याह-एको भनक्ति समिलाम् , एक उत्पथप्रस्थितो भवतीति शेषः ॥ एकः पतति पार्श्वन, 'निविशति' उपविशति, "निविज्जइ" त्ति शेते, 'उत्कूर्दति' ऊर्द्ध गच्छति, "उप्फिडइ" त्ति मण्डूकवत् प्लवते, शठो 'बालगवीम्' अवृद्धां गां “वए” त्ति 'ब्रजेत्' तदभिमुखं धावेत् , एक इति सर्वत्र गम्यते ॥ मायी 'मूर्धा' मस्तकेन पतति, क्रुद्धः सन् 'गच्छति प्रतिपथं' पश्चाद्वलति, 'मृतलक्ष्येण' मृतव्याजेन तिष्ठति, कथञ्चित् प्रवणीकृतोऽपि 'वेगेन च प्रधावति' यथा द्वितीयो गन्तुं न शक्नोति तथा गच्छतीत्यर्थः॥ 'छिन्नालः' तथाविधदुष्टजातिः छिन्नत्ति सिल्लिं' रजुम् , दुर्दान्तो भनक्ति युगम् , सोऽपि च युगं भङ्क्त्वा "सुस्सुयाइत्त" ति सूत्कारान् कृत्वा "उजुहित" त्ति प्रेर्य स्वामिनं पलायते इति गम्यते ॥ इत्थं दृष्टान्तं परिभाव्य दार्टान्तिकं यथा भावयत्यसौ तथाऽऽह-खलुका यादृशा 'योज्याः' योजनीया दुःशिष्या अपि तादृशा एव 'हुः' एवकारार्थः अनुयोज्याः, किमिति ? यतो योजिता धर्मयाने भज्यन्ते धृतिदुर्बलाः ॥ धृतिदुर्बलत्वमेव भावयितुमाह-ऋद्ध्या गौरवं-ऋद्धिमन्तः श्राद्धा मे वश्याः सम्पद्यते च चिन्तितमुपक
रणमित्यात्मकबहुमानरूपमृद्धिगौरवं तदस्यास्तीति ऋद्धिगौरविको न गुरुनियोगे प्रवर्त्तते एकः, एकः 'अत्रेति दुःशिष्याधिकारे a रसेषु-मधुरादिषु गौरवं यस्य स रसगौरवो ग्लानाद्याहारदानतपसोर्न प्रवर्त्तते, सातगौरविक एकः सुखप्रतिबद्धोऽसौ
अप्रतिबद्धविहारादौ न प्रवर्त्तते, एकः सुचिरक्रोधनो दीर्घरोषतयैव न कृत्येषु प्रवर्त्तते ॥ 'भिक्षालस्थिकः' भिक्षालस्यवान |एको न विहर्तुमिच्छति, एकोऽपमानभीरुः भिक्षा भ्रमन्नपि न यस्य तस्यैव गृहे प्रवेष्टुमिच्छति, 'स्तब्धः' अहङ्कारवान् न निजकुग्रहान्नमयितुं शक्य एक इति प्रक्रमः । 'एकं च' दुःशिष्यं "अणुसासम्मि" त्ति अनुशास्मि अहं 'हेतुभिः कारणैश्च' उक्तस्वरूपैः ॥ 'सोऽपि' 'अनुशिष्यमाणः अन्तरभाषावान् 'दोषमेव' अपराधमेव प्रकरोति न त्वनुशिष्यमाणोऽपि