________________
अथ खलुङ्कीयाख्यं सप्तविंशमध्ययनम् ।
व्याख्यातं षाडुंशमध्ययनम् । सम्प्रति खलुङ्कीयाख्यं सप्तविंशमध्ययनमारभ्यते, अस्य चायमभिसम्बन्धः - 'अनन्त - राध्ययने सामाचारी प्रतिपादिता, सा चाऽशठतयैव पालयितुं शक्या, साऽपि तद्विपक्षभूतशठतापरिहारेणैव भवतीत्यतो दृष्टान्ततः शठतास्वरूपं निरूप्यते' इत्यनेन सम्बन्धेनाऽऽयातस्याऽस्याऽऽविसूत्रम् -
येरे गहरे गग्गे, मुणी आसि बिसारए । आइन्ने गणिभावम्मि, समाहिं पडिलंघए ॥ १ ॥
व्याख्या - धर्मे अस्थिरान् स्थिरीकरोतीति स्थविर: गणं-गुणसमूहं धारयति - आत्मन्यवस्थापयतीति गणधर : 'गर्गः' गर्गनामा मुणति - प्रतिजानीते सर्वसाबद्यविरतिमिति मुनि: 'आसीत् ' अभूत् 'विशारदः सर्वशास्त्रेषु कुशल: 'आकीर्णः' आचार्यगुणैर्व्याप्तः 'गणिभावे' आचार्यत्वे स्थित इति गम्यते, 'समाधि' चित्तसमाधानरूपं 'प्रतिसन्धत्ते' कुशिष्यैस्रोटितमपि सङ्घट्टयति आत्मन इति गम्यत इति सूत्रार्थः ॥ १ ॥ स च समाधिं सन्दधद् यत् परिभावयति तदाऽऽह—
वहणे वहमाणस्स, कंतारं अश्वत्तए । जोए वहमाणस्स, संसारो अइवत्तए ॥ २ ॥
व्याख्या- 'वहने' शकटादौ "वहमाणस्स” त्ति अन्तर्भावितण्यर्थतया वाह्यमानस्य अर्थात् पामरादेः उत्तरत्र खलुङ्कग्रहणाद् इह विनीतगवादिमिति गम्यते, कान्तारम् 'अतिवर्तते' सुखातिवर्त्तितया स्वयमेवाऽतिक्रामतीति दृष्टान्तः । उपनयमाह - 'योगे' संयमव्यापारे 'वाहयमानस्य' प्रवर्त्तयतः आचार्यादेः सुशिष्यानिति गम्यते, संसारः 'अतिवर्त्तते' प्राग्वत्
सुशिष्यस्वरूपम् ।