SearchBrowseAboutContactDonate
Page Preview
Page 638
Loading...
Download File
Download File
Page Text
________________ उ० अ० ५३ XOXO XO XOXOXOX त्रिकोत्तरकालं त्रिकत्रिकसङ्ख्यं पाणिप्राणिविशोधनं कर्त्तव्यम् ॥ प्रतिलेखनादोषपरिहारार्थमाह - 'आरभटा' विपरीतकरणमुच्यते, त्वरितं वा अन्यान्यवस्त्रग्रहणेनाऽसौ भवेत्, उक्तं हि - “ वितेहकरणमारभडा तुरियं वा अन्नमन्नगहणेण" । सम्मर्दनं सम्मर्दा रूढित्वात् स्त्रीलिङ्गता, वस्त्रान्तः कोण सञ्चलनम्, उपधेर्वा उपरि निषदनम् उक्तञ्च - ""अंतो व होज्ज कोणा निसियण तत्थेव सम्मद्दा" वर्जयितव्येति सर्वत्र सम्बध्यते । 'चः पूरणे, "मोसलि" त्ति तिर्यगूर्ध्वमधो वा घट्टना तृतीया । 'प्रस्फोटना' प्रकर्षेण रेणुगुण्डितस्येव वस्त्रस्य स्फोटना चतुर्थी । विक्षेपणं विक्षिप्ता पश्चमीति गम्यते, रूढित्वाच स्त्रीलिङ्गता, सा च प्रत्युपेक्षितवस्त्रस्याऽन्यत्राऽप्रत्युपेक्षिते क्षेपणं प्रत्युपेक्षमाणो वा वस्त्राचलं यदूर्ध्वं क्षिपति । वेदिका "छट्ट" ति षष्ठी, अत्र सम्प्रदाय : – “ वेइया पंचविहा पन्नत्ता, तं जहा — उडूवेइया, अहोवेइया, तिरियैवेइया, उभओवेश्या, एंगैओवेइया । तत्थ उडवेइया — उवरिं जण्णुगाणं हत्थे काऊणं पडिलेहेइ, अहोवेइया —– अहोजण्णुगाणं हत्थे काऊण पडिलेहेइ, तिरियवेइया - संडासयाणं मज्झेणं हत्थे नेऊण पडिलेहेइ, उभओवेइया -- बाहाणं अंतरे दो वि जाणुगा काऊण पडिलेहेइ, एगओवेइया - एगं जण्णुगं बाहाणं अंतरे काऊण पडिलेहेइ" । एवमेते दोषाः प्रतिलेखनायां परिहर्त्तव्याः ॥ तथा प्रशिथिलं नाम दोषः - यददृढम् अनिरायतं वा वस्त्रं गृह्यते । प्रलम्बः - यद्विषमग्रहणेन प्रत्युपेक्ष्यमाणवस्त्रकोणानां लम्बनं लोलः - भूमौ करे वा प्रत्युपेक्ष्यमाणवस्त्रस्य ढोलनममीषां द्वन्द्वः । एकामर्शनं एकामर्शा प्राग्वत् स्त्रीलिङ्गता, मध्ये गृहीत्वा ग्रहणदेशं यावदुभयतो वस्त्रस्य यदेककालं सङ्घर्षणमाकर्षणम् । “अणेगरूवधुण” त्ति अनेकरूपा १ "वितथकरणं आरभटा त्वरितं वा अन्याऽन्यग्रहणेन" । २ "अन्तर्वा भवेयुः कोणा निषीदनं तत्रैव सम्मर्दा" । ३ " वेदिका पञ्चविधा प्रशप्ता, तद्यथा - ऊर्ध्वं वेदिका अधोवेदिका तिर्यग्वेदिका उभयतोवेदिका एकतोवेदिका, तनोर्ध्ववेदिका—उपरि जानुनोईस्तो कृत्वा प्रतिलेखयति, अधोवेदिका - अधो जान्वोर्हस्तौ कृत्वा प्रतिलेखयति, तिर्यग्वेदिका - संदंशकयोर्मध्ये हस्तेन गृहीत्वा प्रतिलेखयति, उभयतोवेदिका - बाहोरन्तरे द्वे अपि जानुनी कृत्वा प्रतिलेखयति, एकतोवेदिका - एकं जानु बाह्वोरन्तरे कृत्वा प्रतिलेखयति” । FOXOXO यतिदिनकृत्यम् ।
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy