________________
पइविंशं सामाचा
ख्यिम
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृत्तिः ।
ध्ययनम् । यतिदिनकृत्यम्।
॥३११॥
पढमं पोरिसिं सज्झायं, बिइयं झाणं झियायई। तइयाए निद्दमुक्खंतु, चउत्थी भुज्जो विसज्झायं १८
व्याख्या-स्पष्टमेव । नवरम्-रात्रिमपि न केवलं दिनमित्यपिशब्दार्थः, द्वितीयायां 'ध्यान' धर्मध्यानं तृतीयायां | 'निद्रामोक्षं स्वापं कुर्यादिति सर्वत्र प्रक्रमाद् वृषभापेक्षं चैतत् , सामस्त्येन तु प्रथमचरमप्रहरजागरणमेव, तथा चागमः-"सवेसि पढमजामे, दोण्णि उ वसहाण आइमा जामा । तइओ होइ गुरूणं, चउत्थओ होइ सोसि ॥१॥" इति सूत्रद्वयार्थः॥ १७-१८ ॥ सम्प्रति रात्रिभागचतुष्टयपरिज्ञानोपायमुपदर्शयन् समस्तं यतिकृत्यमाहजं नेइ जया रतिं, नक्खत्तं तम्मि नहचउभाए। संपत्ते विरमेज्जा, सज्झाय पओसकालम्मि॥१९॥ तम्मेव य नक्खत्ते, गयण चउभागसावसेसम्मि। वेरत्तियं पिकालं, पडिलेहित्ता मुणी कुज्जा॥२०॥ ___ व्याख्या--यद् नयति समाप्तिमिति गम्यते, यदा रात्रिं नक्षत्रं तस्मिन् नभश्चतुर्भागे सम्प्राप्ते विरमेत "सज्झाय" त्ति स्वाध्यायात् प्रदोषकाले प्रारब्धादिति शेषः ॥ तस्मिन्नेव नक्षत्रे प्रक्रमात् प्राप्ते “गयण" त्ति गगने, कीदृशि? चतुर्भागेन गम्येन सावशेष चतुर्भागसावशेष तस्मिन् 'वैरात्रिक' तृतीयम् अपिशब्दात् निजनिजसमये प्रादोषिकादिकं च कालं "पडिलेहित्त" त्ति 'प्रत्युपेक्ष्य' जागर्य मुनिः 'कुर्यात् करोतेः सर्वधात्वर्थत्वाद् गृह्णीयात् ॥ इह च प्रथमादिषु नभश्चतुर्भागेषु सम्प्राप्ते नेतरि नक्षत्रे रात्रेः प्रथमादयः प्रहरा इति सामर्थ्यादुक्तं भवतीति सूत्रद्वयार्थः ॥ १९-२० ॥ इत्थं सामान्येन | दिनरजनिकृत्यमुपदर्य पुनर्विशेषतस्तदेव दर्शयंस्तावद् दिनकृत्यमाहपुबिल्लम्मि चउभागे, पडिलेहित्ताण भंडयं । गुरुं वंदित्तु सज्झायं, कुज्जा दुक्खविमुक्खणं ॥२१॥ पोरिसीए चउभाए, वंदित्ताण तओ गुरूं। अपडिक्कमित्ता कालस्स, भायणं पडिलेहए ॥२२॥
, “सर्वेषां प्रथमयामो, द्वौ तु वृषभाणामाद्यौ यामौ । तृतीयो भवति गुरूणां, चतुर्थको भवति सर्वेषाम् ॥ १॥"
॥३१
॥