________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच-
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
पइविशं सामाचाख्यिमध्ययनम् ।
यतिदिनकृत्यम् ।
॥३१०॥
पृच्छेत् कृतप्राञ्जलिः, यथा-किं कर्त्तव्यं मया 'इह' अस्मिन् समये इति गम्यते । एतदेव व्यनक्ति-"इच्छे" ति इच्छामि | "निओइउ' ति नियोजयितुं युष्माभिरात्मानमिति शेषः। “भंते" ति भदन्त ! वैयावृत्त्ये, वाशब्दो भिन्नक्रमः, ततः स्वाध्याये वा ।। एवं च पृष्ट्वा यत् कृत्यं तदाह-वैयावृत्त्ये नियुक्तेन कर्त्तव्यं प्रक्रमाद् वैयावृत्त्यम् “अगिलायउ" त्ति अग्लान्यैव, स्वाध्याये वा नियुक्तेन सर्वदुःखविमोक्षणे स्वाध्यायोऽग्लान्यैव कर्त्तव्य इति प्रक्रम इति सूत्रत्रयार्थः॥८-९-१०॥ इत्यं सकलौघसामाचारीमूलत्वात् प्रतिलेखनायाः कालं सदा विधेयत्वाद् गुरुपारतव्यं चाभिधायौत्सर्गिकं दिनकृत्यमाहदिवसस्स चउरो भागे, कुना भिक्खू वियक्खणो।तओउत्तरगुणे कुज्जा, दिणभागेसु चउसु वि ११ पढमं पोरिसिं सज्झायं,बीयं झाणं झियायई। तइयाए भिक्खायरियं, पुणो चउत्थीए सज्झाय॥१२॥
व्याख्या-स्पष्टमेव । नवरम्-'तओं" त्ति 'ततः' चतुर्भागकरणानन्तरं 'उत्तरगुणान्' स्वाध्यायादीन् । प्रथमा पौरुषी 'स्वाध्यायं' वाचनादिकं कुर्यात् , द्वितीयायां ध्यानं ध्यायेत्, ध्यानं चेहार्थपौरुषीत्वादस्या अर्थविषय एव मानसादिव्यापारणमुच्यते, ध्यायेदिति वा, अनेकार्थत्वाद् धातूनां कुर्यादिति सूत्रद्वयार्थः ॥ ११-१२ ॥ यदुक्तं प्रथमा पौरुषीमिति तत्परिज्ञानार्थमाहआसाढे मासे दुपया, पोसे मासे चउप्पया। चित्तासोएसु मासेसु, तिपया हवइ पोरिसी ॥१३॥ अंगुलं सत्तरत्तेणं, पक्खेण य दुअंगुलं । वहुए हायए वा वि, मासेणं चउरंगुलं ॥१४॥ आसाढबहुलपक्खे, भद्दवए कत्तिए य पोसे य । फग्गुणवइसाहेसुय, नायबा ओमरत्ता उ॥१५॥ व्याख्या-'सप्तरात्रेणेति दिनाविनाभावित्वाद् रात्रीणां सप्ताहोरात्रेण वर्द्धसे दक्षिणायने, हीयते उत्तरायणे । इह च
॥३१
॥