________________
दशविधा यतिसामाचारी।
गुरुमा 'छन्दना' निमन्त्रणा 'द्रव्यजातेन' द्रव्यविशेषेण पूर्वगृहीतेनेति गम्यते । यदुक्तम्-"पुषगहिएण छंदणनिमंतणा होइ अगहिएणं" ति । इच्छाकारः 'सारणे' आत्मनः परस्य वा कृत्यं प्रति प्रवर्त्तने, तत्राऽऽत्मसारणे, यथा-इच्छाकारेण युष्मच्चिकीर्षित कार्यमिदं करोमीति, अन्यसारणे च-मम पात्रलेपनादि इच्छाकारेण कुरुत । 'तथाकारः' इदमित्थमेवेसभ्युपगमः, स च 'प्रतिश्रुते' प्रतिश्रवणे गुरौ वाचनादिकं यच्छत्येवमेतदित्यभ्युपगमरूपे । 'अभी'त्याभिमुख्येन उत्थानम्उद्यमनमभ्युत्थानं, "गुरुपूय" त्ति सूत्रत्वाद् गुरुपूजायां, सा च गौरवार्हाणामाचार्यग्लानादीनां यथोचिताहारादिसम्पादनम् । इह च सामान्याभिधानेऽप्यभ्युत्थानं निमन्त्रणारूपमेव ग्राह्यम् , अत एव नियुक्तिकृता एतत्स्थाने निमत्रणैवाऽभिहिता "छंदणा य निमंतण" त्ति । तथा "अच्छणे" त्ति 'आसने' प्रक्रमाद् आचार्यान्तरादिसन्निधानावस्थाने 'उपसम्पद्' इयन्तं कालं भवदन्तिके मयाऽऽसितव्यमित्येवंरूपा। 'एवम्' उक्तप्रकारेण "दुपंचसंजुत्त” त्ति द्विपञ्चकसंयुक्ता दशसंख्यायुता सामाचारी 'प्रवेदिता' कथिता। शेषं स्पष्टमिति सूत्रत्रयार्थः ॥ ५-६-७ ॥ एतावता दशविधां सामाचारीमभिधाय ओघसामाचारी विवक्षुरिदमाहपुचिल्लम्मि चउभागे, आइच्चम्मि समुहिए। भंडयं पडिलेहित्ता, वंदित्ता य तओ गुरुं॥८॥ पुच्छिज्जा पंजलिउडो, किं कायचं मए इहं । इच्छं निओइउं भंते !, वेयावच्चे व सज्झाए ॥९॥ वेयावच्चे निउत्तेणं, कायवमागिलायओ । सज्झाए वा निउत्तेणं, सबदुक्खविमोक्खणे ॥१०॥
व्याख्या-पूर्वस्मिंश्चतुर्भागे आदित्ये 'समुत्थिते' समुद्गते इत्यर्थः, इह च किञ्चिदूनोऽपि चतुर्भागश्चतुर्भाग उक्तः, ततोऽयमर्थः-बुद्ध्या नभश्चतुर्धा विभिद्यते, तत्र पूर्वदिक्सम्बद्धे किञ्चिदूननभश्चतुर्भागे यदाऽऽदित्यः समुदेति तदा पादोनपौरुध्यामित्यर्थः, भाण्डमेव 'भाण्डक' पतगृहाद्युपकरणं प्रतिलिख्य वन्दित्वा च 'ततः' प्रतिलेखनानन्तरं 'गुरुम्' आचार्यादि
ओघसामाचारी।