________________
श्रीउत्तराध्ययनसूत्रे
श्रीनेमिचन्द्रीया सुखबोधा
ख्या लघुवृतिः ।
॥ २९८ ॥
अणगाण सहस्साणं, मज्झे चिट्ठसि गोयमा ।। ते य ते अभिगच्छंति, कहं ते निज्जिया तुमे १ ॥ ३५ ॥ एगे जिए जिया पंच, पंच जिए जिया दस । दसहा उ जिणित्ताणं, सङ्घसत्तू जिणामहं ॥ ३६ ॥ सत्तू य इइ के वुत्ते ?, केसी गोयममबवी । तओ केसिं बुवंतं तु, गोयमो इणमब्रवी ॥ ३७ ॥ एगप्पा अजिए सत्तू, कसाया इंदियाणि य । ते जिणित्तू जहानायं, विहरामि अहं मुणी ॥ ३८ ॥ व्याख्या -' अनेकानां' बहूनां 'सहस्राणां प्रक्रमात् शत्रुसम्बन्धिनां मध्ये तिष्ठसि गौतम ! 'ते' शत्रवः 'ते' इति त्वामभिलक्षीकृत्य गच्छन्ति अर्थात् जेतुम्, कथं ते निर्जितास्त्वया ? ॥ गौतम आह - ' एकस्मिन्' प्रक्रमात् शत्रौ जिते |जिताः पश्च, तथा "पंच जिए" त्ति सूत्रत्वात् पञ्चसु जितेषु जिता दश, 'दशधा तु' दशप्रकारान् पुनर्जित्वा 'सर्वशत्रून्' अनेकसंख्यान् जयाम्यहम् ॥ ततश्च - "सत्तू य इइ" 'चः' पूरणे, 'इति' भिन्नक्रमो जातौ चैकवचनम्, ततः शत्रुः क उक्तः ? इति | केशिः गौतममत्रवीत् । शेषं सुगमम् ॥ नवरम् — एकः 'आत्मा' चित्तं, तद्भेदोपचाराद् अजितोऽनेकानर्थावाप्तिहेतुत्वात् शत्रुरिव शत्रुः, तथा कषाया अजिताः शत्रव इति वचनविपरिणामेन योज्यते, एते चाऽऽत्मसहिताः प्रागुक्ताः पञ्च भवन्ति, तथेन्द्रियाणि शत्रवोऽजितानि, एते च सर्वे प्रागुद्दिष्टा दश जाताः, चशब्दात् नोकषायाद्युत्तरोत्तरभेदाश्च सर्वेऽपि शत्रवो|ऽजिताः । सम्प्रत्युपसंहारव्याजेन तज्जये फलमाह – 'तान्' उक्तरूपान् शत्रून् जित्वा 'यथान्यायं' यथोक्तनीत्यनतिक्रमेण ततो विहरामि, तन्मध्येऽपि तिष्ठन्नप्रतिबद्धविहारितयेति गम्यते इति सूत्रचतुष्टयार्थः ।। ३५-३६-३७-३८।। एवं गौतमेनोकेसाहु गोयम ! पन्ना ते, छिन्नो मे संसओ इमो । अन्नोऽवि संसओ मज्झं, तं मे कहसु गोयमा ! ॥ ३९ ॥ दीसंति बहवे लोए, पासबद्धा सरीरिणो । मुक्कपासो लहुन्भूओ, कहं तं विहरसि मुणी १ ॥ ४० ॥ ते पासे सहसो छित्ता निहंतॄण उवायओ । मुक्कपासो लहु-भूओ, विहरामि अहं मुणी ॥ ४१ ॥
त्रयोविंशं
केशि
गौतमी
याख्यम
ध्ययनम् ।
केशिगौतमयोः प्रश्नोउत्तराणि ।
॥ २९८ ॥