________________
वनानुज्ञाने वक्रजडत्वेन वस्त्ररञ्जनादिषु प्रवृत्तिर्दुर्निवारैव स्यादिति न तेन तदनुज्ञातम् । पार्श्व शिष्यास्तु न तथेति रक्ता
केशिगौतदीनामपि तेनानुज्ञानं कृतमिति भावः॥ किञ्च प्रत्ययार्थ च' अमी व्रतिन इति प्रतीतिनिमित्तं च, कस्य ? लोकस्य,
Xमयोः प्रश्नोअन्यथा हि यथाऽभिरुचितं वेषमादाय पूजादिनिमित्तं विडम्बकादयोऽपि 'वयं तिनः' इत्यमिद धीरन, ततो अतिध्वपि
त्तराणि। न लोकस्य व्रतिनः इति प्रतीतिः स्यात् । किं तदेवम् ? इत्याह-'नानाविधविकल्पनं' प्रक्रमात् नाना प्रकारोपकरणपरिकल्पनम् , नानाविधं हि वर्षाकल्पायुपकरणं यथावद् यतिष्वेव सम्भवतीति कथं न तत्प्रत्ययहेतुः स्यात् ?, तथा यात्रासंयमनिर्वाहस्तदर्थम् ? विना हि वर्षाकल्पादिकं वृष्ट्यादौ संयमबाधैव स्यात्, ग्रहणं-ज्ञानं तदर्थं च, कथञ्चित् चित्तविप्लवोत्पत्चावपि गृहातु-यथाऽहं व्रतीति, एतदर्थ लोके लिङ्गस्य प्रयोजनमिति-प्रवर्त्तनं लिङ्गप्रयो जनम् ॥ 'अथे'त्युपन्यासे, "भवे पइन्ना उ" ति तुशब्दस्यैवकारार्थत्वाद् मिन्नक्रमत्वाच्च भवेदेव 'प्रतिज्ञा' अभ्युपगमः, प्रक्रमात् पार्श्व
वर्द्धमानयोः प्रतिज्ञास्वरूपमाह-"मोक्खसब्भूयसाहण" ति मोक्षस्य सद्भूतानि च तानि तात्त्विकत्वात् साधनानि च आहेतुत्वात् मोक्षसद्भूतसाधनानि, कानि ? इत्याह-ज्ञानं च दर्शनं चैव चारित्रं च 'एव:' अवधारणे, स च लिङ्गस्य मुक्ति|सद्भूतसाधनतां व्यवच्छिनत्ति-ज्ञानाद्येव मुक्तिसाधनं न तु लिङ्गम् । श्रूयते हि भरतादीनां लिङ्गं विनाऽपि केवलोत्पत्तिः, 'निश्चये' निश्चयनये विचार्ये न तु व्यवहारे, इति लिङ्गस्य तत्त्वतोऽकिञ्चित्करत्वात् न तद्भेदो विदुषां विप्रत्ययहेतुः, शेष स्पष्टमिति सूत्रत्रयार्थः ॥ ३१-३२-३३ ॥ साहु गोयम! पन्ना ते, छिन्नो मे संसओ इमो। अन्नोऽवि संसओमज्झं,तं मे कहसुगो यमा!॥३४॥
व्याख्या-प्राग्वत् । इत्थं महाव्रतात्मकधर्मविषयं वेषात्मकलिङ्गभेदविषयं च शिष्याणां विप्रत्यय मपनीय प्रसङ्गतस्तेषामेव व्युत्पत्त्यर्थं जानन्नपि अपरमपि वस्तुतत्त्वं पृच्छन् केशिः 'अन्योऽपि संशयः' इत्यादि पुनराह ॥ ३४ ॥